________________
३६६
मुहूर्तचिंतामणिः। [लालाटिकयोगाः __ अथ लालाटिकयोगान्वक्तुकामस्तावद्दिस्वामिन उपजातिकयाहसूर्यः सितो भूमिसुतोऽथ राहुः शनिः शशी ज्ञश्च बृहस्पतिश्च । प्राच्यादितो दिक्षु विदिक्षु चापि दिशामधीशाः क्रमतः प्रदिष्टाः॥
सूर्य इति । स्पष्टार्थमिदं पद्यम् । यदाह वसिष्ठः-'दिगीश्वरा भास्करशुक्रभौमराह्वर्किचंद्रज्ञसुरार्चिताः स्युः' इति ॥ ४६॥
अथ दिगधीशकथनप्रयोजनं तनुमध्याछंदसाह: केंद्रे दिगधीशे गच्छेदवनीशः।
लालाटिनि तसिन्नेयादरिसेनाम् ॥ ४७ ॥ केंद्रे इति ॥ दिवस्वामिनि 'सूर्यः सितः' (११।४६) इत्यादिनोक्त केंद्रे केंद्रवर्तिनि सति अवनीशो राजा गच्छेत् । तस्मिन् दिगधीशे लालाटिनि सति मरिसेनां नेयान गच्छेत् । यदाह श्रीपतिः-'ललाटगे न प्रवसेद्दिगीशे गंतव्यमस्मिन् खलु कंटकस्थे' इति ॥ ४७ ॥ अथ लालाटिकयोगान् शार्दूलविक्रीडितेनाहप्राच्यादौ तरणिस्तनौ भृगुसुतो लाभव्यये भूसुतः
कर्मस्थोऽथ तमो नवाष्टमगृहे सौरिस्तथा सप्तमे । चंद्रः शत्रुगृहात्मजेऽपि च बुधः पातालगो गीष्पति
वित्तभ्रातृगृहे विलग्नसदनाल्लालाटिकाः कीर्तिताः॥४८॥ प्राच्यादाविति ॥ प्राच्यादौ प्राच्याद्यष्टदिक्षु क्रमेण विलग्नसदनादिषु भावेषु सूर्यादिग्रहस्थित्या लालाटिकाः स्युरिति वाक्यार्थः । यथा-तनौ लग्नस्थस्तरणिः सूर्यः प्राच्यां गंतुर्लालाटिकः, एवमाग्नेय्यां भृगुसुतो लाभव्यये एकादशद्वादशस्थाने लालाटिकः, कर्मस्थो दशमस्थो भूसुतो मंगलो दक्षिणस्याम् , तमो राहुरष्टमनवमस्थानस्थितो नैरत्याम् , सौरिः शनिः सप्तमस्थः पश्चिमायाम् , चंद्रः शत्रुगृहात्मजे षष्ठपंचमस्थो वायव्याम् , बुधः पातालगश्चतुर्थस्थानस्थ उत्तरस्याम् , गीष्पतिवृहस्पतिर्वित्तभ्रातृगृहे द्वितीयतृतीयस्थानस्थ ऐशान्यां लालाटिक इत्यर्थः । यदाह नारदः–'लग्नस्थो भास्करः प्राच्यां दिशि यातुर्ललाटगः । द्वादशैकादशे शुक्र आग्नेय्यां तु ललाटगः । · दशमस्थः कुजो लग्नाद्याम्यायां तु ललाटगः । नवमाष्टगतो राहुनैऋत्यां तु ललाटगः ॥ लग्नात्सप्तमगः सौरिः प्रतीच्यां तु ललाटगः । षष्ठपंचमगश्चंद्रो वायव्यां च ललाटगः ॥ चतुर्थस्थानगः सौम्य उत्तरस्यां ललाटगः । द्वित्रिस्थानगतो जीव ऐशान्यां तु ललाटगः ॥ लालाटिदिक्पतिं त्यक्त्वा जीवितेप्सु