________________
प्रयाणे शुभलग्नानि ] यात्राप्रकरणम् ११ ।
३६५ स्थितेषु सत्सु यात्रा प्रशस्ता । प्रशस्तत्वमेवाह-अर्थदात्री जयकारिणी
चेति । यथा-मेषः पूर्वस्यां, वृषो दक्षिणस्यां, मिथुनः पश्चिमायां, कर्कटः उत्तरस्यां; एवं सिंहादयो धनुरादयश्च पूर्वादिषु ध्येयाः । यदाह वसिष्ठः-'पूर्वादिदिक्षु मेषाद्याः क्रमादिग्द्वारराशयः । दिग्द्वारराशयः सर्वे तद्दिग्यातुः शुभप्रदाः॥' इति । हानिमिति । दिक्प्रतिलोमलग्ने विपरीतदिगवस्थिते लग्ने सति; यथा-पश्चिमायां मेषः, उत्तरस्यां वृषः, पूर्वस्यां मिथुनः, दक्षिणस्यां कर्कः । एवं पुनः पश्चिमादिषु दिक्षु सिंहादयो धनुरादयश्च ज्ञेयाः । तादृशे लग्ने गंतुः पुंसो यात्रा हानि द्रव्यादिनाशं रिपुतः शत्रुतो भयं च कुर्यात् । तथाशब्दः पादपूरणे । उक्तं च वसिष्ठेन-'दिग्द्वारभे लग्नगते यात्रार्थविजयप्रदा । लग्ने दिक्प्रतिलोमे सा हानिदा शत्रुभीतिदा ॥' इति । बृहयात्रायां वराहोऽपि-'यातव्यदिक्तनुगतस्य सुखेन सिद्धिय॑र्थश्रमो भवति दिक्प्रतिलोमलग्ने' इति ॥ ४४ ॥ अथ शुभलमान्येव वसंततिलकाछंदसाह
राशिः स्वजन्मसमये शुभसंयुतो यो ___ यः स्वारिभानिधनगोऽपि च वेशिसंज्ञः । लग्नोपगः स गमने जयदोऽथ भूप
योगैर्गमो विजयदो मुनिभिः प्रदिष्टः ॥ ४५ ॥ राशिरिति ॥ जिगमिषोः पुंसः स्वजन्मसमये यो राशिः शुभग्रहैश्चंदबुधगुरुशुक्रः संयुतोऽस्ति स राशिश्चेद्यात्रालग्नोपगः स्यात् , अथवा स्वारिभात् स्वशत्रोभ राशिर्लग्नं वा ततोऽष्टमो यो राशिः स चेद्यात्रालग्नोपगः स्यात् ,अथवा यो राशिर्वेशिसंज्ञः सूर्याक्रांतराशेर्द्वितीयो राशिर्वेशिसंज्ञः स चेद्यात्रालग्नोपगः स्यात् , तदा स राशिर्गमने जयदः स्यात् । यदाह नारदः-'यो ग्रहो जन्मनि शुभो यो राशिर्वेशिसंज्ञकः । तावुभौ जन्मलग्नं च यात्रायां शुभदं त्रयम् ॥' इति । शुभः=शुभग्रहयुतः । यदाह श्रीपतिः-'यः स्वजन्मनि शुभग्रहाश्रितो यश्च राशिरिह वेशिसंज्ञकः । यः स्वशत्रुभवनाच्च नैधने लग्नगः स गमने शुभावहः ॥' इति । वसिष्ठः-'शत्रोरष्टमलग्ने वा राशौ वापि विलग्नगे । तदीशस्थितलग्ने वा यातुः शत्रुक्षयः सदा ॥' इति । वेशिलक्षणमाह वराहः-'दिनकरयुताद्भावितीयो वेशिः' इति । अथवा भूपयोगैर्जातकोत्तयात्रालग्नावस्थितै राजयोगैर्गमो मुनिभिर्विजयदः प्रोक्तः । यदाह नारदः- ये नृपा यांत्यरीजेतुं तेषां योगैर्नृपाह्वयैः । उपैति शांति कोपाग्निः शत्रुयोषाश्रुवारिभिः ॥' इति । वराहोऽपि-'जातकोक्तनृपयोगगतानां • प्रतिदिनं भवति राज्यविवृद्धिः । वातघूर्णितमिवार्णवयानं पल्वले तु समुपैति विनाशम् ॥' इति । ते च राजयोगा बृहज्जातके सारावल्यां टोडरानंदे च संति, अतस्तत एवावधार्याः ॥ ४५ ॥