________________
३६४
मुहूर्तचिंतामणिः। [प्रयाणे शुभलग्नानि - जन्मराशीति ॥ स्वस्य जन्मराशेर्जन्मलग्नाचाष्टमे राशौ लग्नस्थ सति, तथा स्वारिभात् जिगमिषतः स्वशनो दाशेलग्नाच्च रिपुभे षष्ठराशौ तनुस्थिते वा सति, अथवा स्वराशिलग्नाभ्यामष्टमभवने स्वशत्रोर्जन्मराशिलग्नाभ्यां षष्ठभवने तेषां स्वामिनो यात्रालग्नगताः स्युर्यदा तदा राज्ञो मृतिप्रदाः । यदाह श्रीपतिः-'जननसमयलग्नानधने जन्मभाद्वा निजरिपुभवनाद्वा शत्रुभे लग्नयाते। पतिभिरुत तदीयैलंग्नतः पार्थिवानां गमनमथ विषं वा भक्षितं तुल्यमेव ॥' इति । विषं वा भक्षितं, मरणप्रदमित्यर्थः । वसिष्ठेन तु स्वजन्मराशिलग्नाभ्यां द्वादशभवनमपि निषिद्धमुक्तम् । यथा-'स्वाष्टलग्ने लग्नगते राशी वा लग्नगे सति । यातुभंगो भवेत्तत्र द्वादशे वाथ लग्नगे ॥' इति ॥ ४२ ॥ . अथान्यच्छुभलग्नं शालिन्याहलग्ने चंद्रे वापि वर्गोत्तमस्थे यात्रा प्रोक्ता वांछितार्थंकदात्री । अंभोराशौ वा तदंशे प्रशस्तं नौकायानं सर्वसिद्धिप्रदायि ॥४३॥ - लग्न इति ॥ मीनकुंभव्यतिरिक्ते यस्मिन्कासंश्चिल्लग्ने वर्गोत्तमस्थे वर्गोत्तमनवांशगते सति वा अथवा चंद्रे वर्गोत्तमस्थे सति यात्रा वांछितार्थस्य मनोभीष्टार्थस्यैकाऽद्वितीया दात्री। यदाह वसिष्ठः-'वर्गोत्तमांशगे लग्ने त्वथवापि सुधाकरे। यात्रा कामदुधा यातुर्माता पुत्रस्य वै यथा ॥' इति । वै निश्चयेन । अथ नौकायात्राया असाधारणत्वेन लग्नमुच्यते-अंभोराशाविति । जलचरराशौ लग्नगते सति अथवा लग्नांतरे तदंशे जलचरांशे सति नौकायानं सर्वसिद्धिप्रदायि स्यात् । यदाह नारदः-'जलोदयो जलांशोऽपि जलयाने शुभप्रदः।' इति । दर्गादित्योऽपि-'नौयानमाप्यभवनेषु विलग्नगेषु कुर्यात्तथान्यगृहगेषु तदंशगेषु' इति। वराहोऽपि--'नौयानमिष्टं जलराशिलग्ने तदंशके वान्यगृहोदयेऽपि।' इति । एतेन संमतिदर्शनेन 'लग्ने चाप्येऽशे च नौयानमिष्टम्' इति श्रीपतिवाक्यं च आप्ये इति पदच्छेदेन स्पष्टार्थमपि चापसंबंधिनि लग्ने धनुर्लग्ने धनुरंशे च नौकायानमिष्टमित्येवं केचिद्व्याकुर्वते, तद्व्याख्यानमपाकृतं भवति । किंच तादृशे वाक्यार्थे क्रियमाणे मूलवाक्यानुपलंभः प्रयोगाशुद्धिश्च स्यात् । चापशब्दात् 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इति वृद्धसंज्ञकात् 'वृद्धाच्छः' इति विहितस्य शैषिकच्छप्रत्ययस्येयादेशे चापीय इति पाठ्यं स्यात्तथा च पाठे छंदोभंगः स्यात् ॥ ४३ ॥ ___ अथ मेषादीनां दिगनुलोमप्रतिलोमराशीनां लग्नावस्थितौ फलमिंद्रवज्राछंदसाहदिग्द्वारभे लग्नगते प्रशस्ता यात्रार्थदात्री जयकारिणी च । हानि विनाशं रिपुतो भयं च कुर्यात्तथा दिक्प्रतिलोमलग्ने ॥४४॥
दिग्द्वारभ इति ॥ दिग्द्वारभानि मेषादिराशयस्तद्विलग्नेषु गंतव्यदिगव. १ आष्यभवनं जलराशिः कुंभो वा मीनो वा ।