________________
प्रयाणेऽनिष्टलग्नं] यात्राप्रकरणम् ११ ।
३६३ बुधोदयो भवेत्स च पुनः संमुखः स्यात्तदा दोष एव । उक्तं च वसिष्ठेन'संमुखे चंद्रगजे यत्र मार्गमध्योदितो यदि । यावदस्तंगते तस्मिंस्तावत्तत्रैव संवसेत् ॥' इति ॥ ३९॥
अथैवं महतायासेन दिनशुद्धिमभिधायेदानी लग्नशुद्धिं वक्तुकामस्तावत्प्रयाणेऽनिष्टलग्नमनुष्टुभाह
कुंभकुंभांशको त्याज्यौ सर्वथा यत्नतो बुधैः ।
तत्र प्रयातुनृपतेरर्थनाशः पदे पदे ॥ ४०॥ कुंभेति ॥ स्पष्टार्थमिदं पद्यम् । यदाह नारदः-निंद्यो निखिलयात्रासु घटलग्ने घटांशकः' इति । श्रीपतिरपि-'नेष्टः कुंभोऽप्युद्गमेंऽशस्थितो वा' इति । वराहोऽपि-'न कुंभलग्नं शुभमाह सत्यो न भागभेदाधवना वदंति' इति ॥ ४०॥ ___ अथान्यदनिष्टलग्नं शुभफलदलग्नं च मंजुभाषिणीछंदसाहअथ मीनलग्न उत वा तदंशके चलितस्य वक्रमिह वर्म जायते । जनिलमजन्मभपती शुभग्रही भवतस्तदा तदुदये शुभो गमः ४१ ___ अथ मीनेति ॥ मीनलग्ने वा सत्यपि लग्नांतरे तदंशे मीनांशे वा चलितस्य राज्ञो वर्म चक्र स्यात् । तदाह नारदः-'वक्रः पंथा मीनलग्ने यातुर्मीनांशकेऽपि वा' इति । श्रीपतिरपि—'वक्रः पंथा मीनलग्नेऽशके वा कार्या सिद्धिः स्यानिवृत्तिश्च तस्य' इति। दुर्गादित्यः-'मीनोदये गमनमन्यगृहोदयेऽपि मीनाशके कुटिलमेव च निष्फलं स्यात्' इति । एवमशुभलग्नमभिधायेदानीं शुभलग्नान्युच्यते-जनीति । जनिर्जन्म, तत्कालीनं लग्नं जनिलग्नं; जन्मभं जन्मराशिः; तयोर्जन्मलग्नजन्मराश्योः पती स्वामिनी शुभग्रहौ चेदुदये लग्ने भवत. स्तदा गमो गमनं शुभः स्यात् । जन्मलग्नं जन्मराशिश्च यात्रालग्नगं शुभमिति प्रागेवाभिहितम् 'जननराशितनू यदि लग्नगे' (११।२) इति । अर्थाजन्मलग्नजन्मराशिस्वामिनी पापग्रहो यदि यात्रालग्ने स्यातां तदा तादृशे लग्ने गमनमशुभफलदमित्यर्थः । यदाह वसिष्ठः-'जन्मराशी लग्नगते तदीशे वा विल. नगे। अभीष्टफलदा यात्रा राशीशश्वेच्छुभग्रहः ॥' इति । ननु 'जन्मराश्युदमो नैव जन्मलग्नोदयः शुभः। तयोरुपचयस्थानं यदि लग्नगतं शुभम् ॥' इति वृद्धनारदेन जन्मराशेर्यात्रालग्नावस्थितौ निषेधोऽभिहितः । सत्यम् । राशेः पापग्रहस्वामित्वे दोषः, न शुभस्वामित्वे, प्रागुक्तवसिष्ठवाक्यस्वरसात् । एवं जन्मलग्नोदयः शुभ इत्यपि जन्मलग्नस्य शुभग्रहस्वामित्वे शुभफलता, न पापस्वामित्वे इति व्याख्येयम् ॥ ४१ ॥
अथान्यदनिष्टं लग्नं रथोद्धताछंदसाहजन्मराशितनुतोऽष्टमे तथा स्वारिभाच रिपुमे तनुस्थिते । लग्नगास्तदधिपा यदाथवा स्युर्गतं हि नृपतेर्मृतिप्रदम् ॥ ४२ ॥