________________
३६२
मुहूर्तचिंतामणिः। [शुक्रास्तादौ विशेषः रपि-नीचगग्रहजिते प्रतिलोमे भार्गवे कलुषितेऽस्तगते वा । प्रस्थितो नरपतिः प्रबलोऽपि क्षिप्रमेव वशमेति रिपूणाम् ॥' इति । अत्र विशेषमाह लघुवसिष्ठः-'शुक्र वास्तंगते जीवे चंद्रे वास्तमुपागते । तयोर्बाल्ये वार्धके च सा यात्रा भयरोगदा ॥' इति । अथ शुक्रापवाद उच्यते-बुध इति । तत्र शुक्रास्ते यदि बुधोऽनुकूलः पृष्ठदिक्संस्थो भवेत्तदा संचलन् गच्छन् राजा रिपून शत्रून् जयेत् । यदाह श्रीपतिः-'एवंविधे ह्यास्फुजिति प्रयायादुधो यदि स्यादनुकूलवर्ती' इति । अपवादातरमप्याह नारदः-'नीचगोऽरिगृहस्थो वा वक्रगोवा पराजितः।यातुभंगप्रदः शुक्रः स्वोच्चस्थश्चेद्धनप्रदः॥' इति। नैवेति । प्रतींदुजे बुधसंमुखत्वे सति गंतू राज्ञो नैव जयः किंतु पराजयः । यदाह नारदः-'प्रतींदुजकृतं दोषं हंतुं शक्ता ग्रहा नहि' इति । वसिष्ठोऽपि'प्रतिशुक्रं प्रतिबुधं प्रतिभौमं गतो नृपः । बलेन शक्रतुल्योऽपि हतसैन्यो निवर्तते ॥' इति । अयं च प्रतिशुक्रादिविचारो नृणां प्रथमगमने, राज्ञां तु विजययात्रायामाहुः । तथा च रैभ्यः-'प्रतिशुक्रादिदोषोऽयं नूतने गमने नृणाम् । राज्ञां विजययात्रायां नान्यथा दोषमावहेत् ॥' इति । आदिशब्दाच्छुक्रास्तप्रतिभौमप्रतिबुधा गृह्यते, तेषामप्येवंविधे विषये दोषः ॥ ३८ ॥
अथ कालविशेष प्रतिशुक्रापवादं शुक्रास्ते च विशेष शालिनीछंदसाहयावचंद्रः पूषभात्कृत्तिकाद्ये पादे शुक्रोऽन्धो न दुष्टोऽग्रदक्षे । मध्येमार्ग भार्गवास्तेऽपि राजा तावत्तिष्ठेत्संमुखत्वेऽपि तस्य ॥३९॥
यावदिति ॥ चंद्रो यदा पूषभाद्रेवतीनक्षत्रादारभ्य कृत्तिकाचे पादे रेवत्यश्विनीभरणीकृत्तिकाप्रथमचरणे यावच्चंद्रस्तिष्ठति तावच्छुक्रोऽन्धो ज्ञेयः । दृष्टोऽपि शुक्रो दर्शनकार्य न करोतीत्यर्थः । तदेवाह-न दुष्ट इति । शुक्रोऽन्धो यदा भवेत्तदा अग्रे संमुखे दक्षिणभागे च दुष्टो न स्यात् । यदाह पराशरः'पोष्णादिवह्निभायांत्रिं यावत्तिष्ठति चंद्रमाः । तावच्छुको भवेदंधः संमुखे गमनं हितम् ॥' इति । मध्येमार्गमिति । मार्गस्य मध्ये मध्येमार्गम् , 'पारे मध्ये षष्ट्या वा' इत्यव्ययीभावः समासः । पूर्वपदस्यैदंतत्वं निपातनात् पारेमध्ये इति । सुमुहूर्तप्रस्थितो राजा मार्गमध्ये यदि शुक्रास्तो भवेत्तावत्कालं तस्मिन्नेव प्रयाणे तिष्ठेत् यावच्छुक्रोदयो भवेत् । यदि शुक्रो गंतू राज्ञः संमुखो दैवात्तावत्तस्य शुक्रस्य संमुखत्वेऽपि तस्मिन्नेव प्रयाणे तिष्ठेत् । उपलक्षणत्वाद्दुरावप्येवंविधे द्रष्टव्यम् । यदाह पराशरः-'जीवः शशांकः शुक्रो वा मार्गमध्येऽस्तगो यदि । तत्रैव निवसेदाजा यावदभ्युदितो भवेत् ॥' इति । उदयादनंतरं यदि संमुखः शुक्रस्तदापि स्थेयमिति प्राग्वचनाज्ज्ञायते । ततः शुक्रास्तापेक्षायां तत्रैव स्थितिः । ततः शुक्रोदयमपेक्ष्य तं च पृष्ठतः कृत्वाने सुमुहूर्ते वा गच्छेदित्यनुक्तसिद्धमप्येतत्सर्व ज्ञायत इति । एवं मध्यमार्ग बुधास्तश्चेत्स्यात्तदा दोषाभावः।सामान्यविशेषवाक्याभावात्।यदातुमध्येमार्ग