________________
शुक्रस्य वक्रास्तादिदोषाः ] यात्राप्रकरणम् ११ । तेनैव सिद्धेः । अथैवंविधेऽपि शुक्रसांमुख्येऽवश्यकर्तव्ये च गमने शांतिमाह वसिष्ठः-तद्दोपशमनार्थाय शांतिं वक्ष्ये समासतः । कृत्वा शांति प्रयत्नेन पश्चात्सर्व समाचरेत् ॥ भृगुलग्ने भृगोर्वारे भृगोर्वर्गे भृगूदये । उपोष्य भृगुवारेऽपि यावच्छुक्रोदयं प्रति ॥ रजतेन च शुद्धेन कारयेत्प्रतिमां भृगोः । लिखेदष्टदलं पद्मं कांस्यपाने च तंदुलैः ॥ शुक्लसूक्ष्मांबरवेष्ट्य प्रतिमां तत्र पूजयेत् । शुक्लपुष्पाक्षतैगंधैर्मुक्ताहारैर्विचित्रितैः ॥ उपचाराणि कार्याणि शुक्र ते अन्यदित्यूचा । तन्मत्रेण जपं कुर्यात्सम्यगष्टोत्तरं शतम् ॥ कर्माते तेन मंत्रेण भक्त्या चाऱ्या प्रदापयेत् । श्वेतगंधाक्षतैः पुष्पैः क्षीरमिश्रेण वारिणा ॥ दैत्यमंत्री दिवादी चोशना भार्गवः कविः । श्वेतोऽथ मंडली काव्यो विधिस्थो भृगवे नमः ॥ दत्त्वेत्यर्थ्य प्रयत्नेन प्रार्थयेदेव भक्तितः । अनेनैव च मंत्रेण प्रांजलिः प्रणतः स्थितः ॥ "त्वत्पूजयानया शुक्र संमुखत्वसमुद्भवम् । दोषं विनाशय क्षिप्रं रक्ष मां तेजसांनिधे ॥” इति प्रार्थ्य प्रयत्नेन प्रतिमा भूषणान्विता । दैवज्ञायैव दातव्या श्वेताश्वसहितैव च ॥ शिष्टेभ्यो दक्षिणां दद्याद्यथावित्तानुसारतः । ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुंजीत बंधुभिः ॥ इतरेषां ग्रहाणां च पूजां कुर्यात्प्रयततः । तत्तत्संमुखजो दोषस्तत्क्षणादेव नश्यति ॥ सूर्याय कपिलां दद्यार्छखं चंद्रमसे तथा । कुजाय वृषभं दद्यात्स्वर्ण दद्याद्बुधाय च ॥ गुरवे पीतवस्त्रं चावं सितायासिताय गाम् । एवं प्रयत्नतः कृत्वा सर्वान्कामानवाप्नुयात् ॥' इति । शुक्रवदितरग्रहसमुख्ये तत्तलिंगस्वशाखोक्तवैदिकमंत्रैः पूजादिकं विधेयम् । अस्मादेव शांतिकथनज्ञापकादितरसांमुख्येऽपि सांमुख्याभिधायकं वाक्यं विनैव किंचिद्दोषोऽस्तीत्यनुमीयते । बुधसांमुख्यदोषं तु स्वयमेव वक्ष्यति । भौमसांमुख्यदोषं कंठतो वसिष्ठ एवाह; तद्वाक्यमधुनैव प्रदर्शयिष्यत इत्यास्तां प्रसक्तानुप्रसक्तम् । दीपिकायां तु दानमेवोक्तम्-सितमश्वं सितं छत्रं हेममौक्तिकसंयुतम् । ततो द्विजातये दद्यात्प्रतिशुऋप्रशांतये ॥' इति । एतच्छांतिप्रकाराशक्तौ ध्येयम् ॥ ३७॥
अथैवं संमुखशुक्रदोषमभिधायेदानीं तस्यैव वक्रास्तादिदोषं सापवादमुपजातिकयाहवक्रास्तनीचोपगते भृगोः सुते राजा वजन्याति वशं हि विद्विषां । बुधोऽनुकूलो यदि तत्र संचलन् रिपूञ्जयेन्नैव जयः प्रतींदुजे॥३८॥ . वक्रास्तेति ॥ भृगोः सुते शुक्रे वक्रोपगते अस्तोपगते नीचगते वा । उपलक्षणत्वाद्रहयुद्धपराजिते वर्णरहिते वा सनि राजा परराष्ट्रं व्रजन् सन् हि निश्चयेन विद्विषां शत्रूणां वशं याति । निबद्धो भवतीत्यर्थः । यदाह भारद्वाजः'विवर्णे विजिते नीचे वक्रिते वा सितेऽस्तगे । शत्रुगृहयुते वापि तदंशे तन्निरीक्षिते ॥ यात्रां नैव प्रकुर्वीत लक्ष्म्यायुर्बलहानिदाम् ॥' इति । श्रीपति
३१ मु० चि.