________________
३६०
मुहूर्तचिंतामणिः । [यात्रायां संमुखशुक्रफलानि कथं ? शुक्रो यस्यां दिशि प्राच्यांप्रतीच्यां वा उदेति कालांशवशेनोदयं करोति अत्र गंतुः पुंसः शुक्रः संमुखः; अयमेकः प्रकारः । वा अथवा गोलभ्रमादुत्तरदक्षिणगोलभ्रमणवशेन यत्र यस्यां दिशि उत्तरस्यां दक्षिणस्यां वा याति गच्छति तत्र गंतुः संमुखः शुक्रः स्यात् ; अयं द्वितीयः प्रकारः । यत्र शब्दोऽनुवर्तते। अथ यत्र ककुब्भसंघे प्राच्यादिदिशि कृत्तिकादिन्यासवशेन यहिङ्नक्षत्रे चरति तत्र दिशि गंतुः संमुखः शुक्रः स्यात् । अयं तृतीयः प्रकारः। यदाहात्रिः-'यदिग्गतः समुदयेद्विचरेद्यत्र गोलके । यद्वारभेषु विचरेत्रिविधं प्रतिभार्गवम् ॥' इति । एवं प्रकारत्रयेण शुक्रसांमुख्य निर्णीते । उदयगतशुक्रदोषाधिक्यमाह-यत्रोदित इति । तुर्विशेषे । एवशब्दो भिन्नक्रमो दिशमित्यनेन संबध्यते । यस्यां दिश्युदितः शुक्रो दृश्येत तां दिशमेव न यायान गच्छेत् । अन्यदिश्यपि यथासंभवं न यायात् । यदाह श्रीपतिः-'उदयति दिशि यस्यां याति यत्र भ्रमाद्वा विचरति च भचक्रे येषु दिग्द्वारभेषु । त्रिविधमिह सितस्य प्रोच्यते संमुखत्वं मुनिभिरुदय एव त्यज्यते तत्र यत्नात् ॥' इति । स्पष्टार्थ पद्यम् । याति यत्र भ्रमाद्वेति । अत्र केचित्-खोदयकालात्प्रदक्षिणं प्राच्याद्यष्टदिक्षु प्रहराष्टकेन सूर्यवच्छुक्रोऽपि भ्रमति । सूर्यभ्रमणं च वसंतराजेनोक्तम्-'दग्धा दिगेंद्री ज्वलिता दिगैशी प्रधूमिता चानलदिक् प्रभाते । प्रत्येकमेवं प्रहराष्टकेन भुंक्ते दिशोऽष्टौ सविता क्रमेण ॥ दग्धा दिगुक्ता दिननाथमुक्ता विवस्वदाता भवति प्रदीप्ता । संधूमितायां सविता प्रयाता शेषा दिगंताः खलु पंच शांताः॥' इति । अनेन सूर्यभ्रमणप्रकारेण शुक्रोऽपि यस्यां दिशि स्यात् सा दिक् गंतुः संमुखा स्यात् । अतस्तस्मिन्प्रहरे सापि दिक् त्याज्येत्यर्थ इत्याहुः । तन्न । वसंतराजे हि सूर्यभ्रमणवच्छुकभ्रमणमप्यवसेयमित्येवंविधशुक्रातिदेशवाक्याभावात् । तस्मात् भ्रमादिति गोलभ्रमादित्येव व्याकतव्यं । अत्रार्थेऽत्रिरप्यनुकूलस्तद्वाक्यं च प्रागुपन्यस्तम् । प्रतिशुक्रदोषफलमाह वराहः-'प्रतिशुक्रबुधाशनिवृष्टिहतादिग्वधं कुरुते नृपतेर्गमने । मदिरामुदिता मदनाकुलिता प्रमदेव कुलं परवेश्मगता ॥' इति । नारदोऽपि-'मूढे शुक्र कार्यहानिः प्रतिशुक्रे पराजयः' इति । ननु वधूप्रवेशप्रकरणे 'दैत्येज्यो ह्यभिमुखदक्षिणे न शस्तः' इति पद्येन शुक्रसांमुख्यदोषोऽभिहितः । किं पुनर्दोषाभिधानेन ? उच्यते,-शिशुगर्भिणीनवोढाभिन्नानां लोकानां विशेषतो राज्ञां च यथासंभवं त्रिविधशुक्रसांमुख्यदोषनिराकरणार्थं पुनरभिधानम् । किंच आवश्यकयात्रायां यत्रोदितस्तामेव दिशं नेयात्। तथा सति 'पश्चादभ्युदिते शुक्रे यायात्प्राची तथोत्तराम् । प्राच्यामभ्युदिते शुक्रे प्रतीची दक्षिणां दिशम् ॥' इति वसिष्ठवाक्यमपि यथासंभवमादरणीयं च भवति । अनेन संमुखशुक्रव्यतिरिक्तदिग्यात्राभ्युपगमात् । किंच वधूप्रवेशप्रकरणे शिश्वादीनां विशेषफलाभिधानं कृतं । नतु सामान्यतो यात्रासाधारण्येनान्येषामपि राजादीनां कृतम् । अत एव यस्य विशेषतः पुनरप्यपेक्षा नास्ति 'नगरप्रवेशविषयाधुपद्वे' इति भृग्वंगिरोवत्स' इति चाभिहितस्य संमुखशुक्रापवादस्याभिधानमन्त्र पुनर्न कृतं ।