________________
३५९
संमुखशुक्रदोषः] . यात्राप्रकरणम् ११। मशुभप्रदम् ॥' इति । अत्र केचित् 'नेष्टश्चतुष्टये वक्रः' इति पाठमादृत्य वक्रो मंगल इति व्याचख्युः। 'मारो वक्रः क्रूरदृक् चावनेयः' इति वराहोक्तेः। तन्न । वक्रमस्यास्तीति वक्र । अर्शमादित्वादच्, वक्री ग्रह एवेत्यर्थः । अत्रार्थे 'एकोऽपि वक्रगः खेट' इति 'बिलोमगो ग्रहो यस्येति च वसिष्ठनारदादिवाक्यान्यनुकूलानि । वक्रीति पाठे मत्वर्थीये इनिप्रत्यये सति वक्रीति रूपसिद्धौ भौमस्य गंधोऽपि नास्ति ॥ ३५ ॥ __ अथायनशुद्विमिंद्रवज्राछंदसाहसौम्यायने सूर्यविधू तदोत्तरां प्राचीं व्रजेत्तौ यदि दक्षिणायने । प्रत्यग्यमाशांच तयोर्दिवानिशं भिन्नायनत्वेऽथ वधोऽन्यथा भवेत्
सौम्यायन इति ॥ यदि सूर्यचंद्रौ सौम्यायने उत्तरायणगतौ स्यातां तदा उत्तरां दिशं प्राची वा व्रजेत् । तद्दिङ्मुखा यात्रा शुभेत्यर्थः । यदि तु रविचंद्रौ दक्षिणायनगतौ स्यातां तदा प्रतीची दक्षिणां वा व्रजेत् । यदाह पराशरः-'चंद्राकौं दक्षिणगतौ यायाद्याम्यां परां प्रति । सौम्यायनगतौ यायात्प्राची सौम्यां दिशं प्रति ॥' इति । अथ तयोः सूर्याचंद्रमसोर्भिन्नायनत्वे अयनभेदे सति दिवानिशं व्रजेत् । यथा-सूर्यों यस्मिन्नयने तां दिशमुत्तरां दक्षिणां वा दिवा दिवसे यायात् । यदा चंद्रो यस्मिन्नयने तां दिशमुत्तरां दक्षिणां वा निशि रात्रौ यायात् । अत्रोत्तरस्यां पूर्वस्या अंतर्भावः, दक्षिणस्यां पश्चिमाया इत्यपि ध्येयम् । अत्र संमतिर्वक्ष्यते । अथान्यथा चेत्कुर्यात्तदा वधो मरणं भवेत् । यथा-भिन्नायनत्वे सति सूर्यो यस्मिन्नयने तां दिशं यदि रात्रौ गच्छेत् चंद्रश्च यस्मिन्नयने तां दिशं दिवसे गच्छेत्तदा यातुर्वधो भवेदित्यर्थः। यदाह वसिष्ठः-'यात्रेष्टसिद्धिदार्केद्वोरेकायनगयोस्तयोः। भिन्नायनगयोरह्नि निशि चेदन्यथा वधः ॥' इति । नारदोऽपि-रवींद्वयनयोर्यानमनुकूलं शुभप्रदम् । तदभावे दिवारात्रौ यात्रा, यातुर्वधोऽन्यथा ॥' इति । तदभावे एकायनत्वाभावे दिवारात्री यात्रागमनं स्यात् । स्पष्टं व्याख्यानं प्राग्वत् ध्येयम् । तदुक्तं रत्नकोशे-'दिनकरकरप्रतप्तां मकरादावुत्तरां च पूर्वां च । यायाच्च कर्कटादौ याम्यामाशां प्रतीची च ॥' इति । अतो विलोमदिग्यात्रायां वधः स्यात् । एतस्य नामायनप्रतिलोमयात्रेत्युच्यते । तन्माहात्म्यमाह वराहः-'यातोऽयनस्य प्रतिलोमकाष्टां यः स्यात्स्वतंत्रोऽपि जितः परेषाम् । स केवलव्याकरणाभियुक्तः काव्यज्ञगोट्यामिव हास्यमेति ॥' इति ॥ ३६॥
अथ राज्ञां यात्रायां संमुखशुक्रदोषमुपजातिकाछंदसाहउदेति यस्यां दिशि यत्र याति गोलभ्रमाद्वाथ ककुब्भसंघे । विधोच्यते संमुख एव शुक्रो यत्रोदितस्तां तु दिशं न यायात् ३७
उदेतीति ॥ शुक्रस्त्रिधा प्रकारत्रयेण संमुख उच्यते, मुनिभिरिति शेषः ।