________________
३५८
मुहूर्तचिंतामणिः । [वक्रिमहस्य नेष्टत्वं युक्ता। अस्ति च मुख्यार्थसंभवो यदुत्पातादिना नक्षत्रस्य वक्रत्वमिति । अपरे पुनराहुः-विलोमा उत्पातास्तैः सह गच्छतीति विलोमगः । त्रिविधोत्पातैयदि पुष्यो निहतोऽपि तदापि शुभ इति । तदपि न । पुष्यस्त्रिविधोत्पातहतो दुष्ट एव । यदाह वसिष्ठः-'मृगगणमध्ये सिंहो ह्युडुगणमध्ये तथैव पुष्यश्च । निजबलसहितोऽप्येवं त्रिविधोत्पातैर्न शक्तिमानिहतः॥' इति । तस्माद्विलोमग इत्यस्यार्थश्चिंत्यः । ननु नक्षत्रविशेषे अश्विन्यादौ विहितत्वप्रतिषिद्धत्वाभ्यां विकल्पः कस्मान्न भवति ? षोडशीग्रहणाग्रहणवत् । उच्यते,तुल्यबलयोर्हि वाक्ययोर्विकल्पः । यथा षोडशीग्रहणाग्रहणयोः न पुनरतुल्यबलयोः । यथौदुंबर्याः सर्ववेष्टनस्पर्शनप्रतिपादिकयोः स्मृत्योः। तत्र हि स्पर्शनस्मृतेः प्रत्यक्षदृश्यो वेदः प्रमाणम् 'औदुंबरी स्पृष्ट्वोद्गायेत्' इति । सर्ववेष्टनस्मृतेस्तु मूलवेदानुपलंभः । एतच्च स्मृतिचरणे सम्यगुपपादितं वार्तिककृता। एवमैश्विन्यादिविषयकसार्वदिग्द्वारकप्रतिपादकस्य 'हस्तः पुष्यः' इत्यस्य वाक्यस्य वसिष्ठादिमुनिवाक्यानि प्रमाणानि, निषेधवाक्यस्य तु चिंत्यं मूलमित्यतुल्यबलत्वाद्विकल्पो न संभवति । तस्मान्मैत्रार्कपुष्याश्विनीनां भानां सार्वदिग्द्वारिकत्वं सिद्धम् । तत्र सर्वशब्दग्रहणाद्वा 'अग्नेर्दिशं नृप इयात्' (११।३४) इत्यादिना वा विदिक्ष्वाग्नेयादिदिक्ष्वपि मैत्रादिभिर्यात्रोचितेति भावः । वसिष्ठः-'सर्वस्मिन्नपि समये सर्वासु च दिग्विदिक्ष्वेव । सार्वद्वारिकधिष्ण्यान्यतिशुभदातॄण्यखिलनृणाम् ॥' इति । अत्र सार्वद्वारिकधिष्ण्यानामेव सर्वकालगामित्वमुक्तम् । रत्नमालायां तु श्रवणमृगशीर्षहस्तपुष्याणामुक्तम् । तच्च गुरूक्तसार्वदिग्द्वारिकत्वा. भिप्रायेण । अनुराधाविन्योस्तु सर्वमतेन सर्वकालगामित्वम् । तदा कालविशेषनिषेधे क्षिप्रग्रहणं अश्विनीरहितं ध्येयम् । मृदुग्रहणमनुराधारहितं ध्येयम् । गुरुमते रेवतीरहितमपि । चरग्रहणं धनिष्ठाव्यतिरिक्तं गुरुमते एव द्रष्टव्यम् । एवमष्टानां सार्वदिग्द्वारिकत्वं सर्वकालगमनार्थम् । चतुर्णा पुनमैत्रादीनां दिक्षु यात्रार्थमपि सार्वदिग्द्वारिकत्वमित्यलमतिप्रसंगेन। वक्री ग्रह इति । वक्र विपरीतं गमनं यस्य भौमादेः स वक्री ग्रहश्चेत्केंद्रगतः स्यात्स गमे यात्रायां निषिद्धः। अथवास्य वक्रीग्रहस्य लग्ने वर्गः षड्वर्गश्चेत्स्यात्तदापि भंगदः । अथवा अस्य वक्रीग्रहस्य दिनं वारोऽपि स्यात् सोऽपि निषिद्धः । यदाह वराहः- एकोऽपि वक्रोपगतो नराणां शुभोऽशुभो वापि चतुष्टयस्थः । वर्गोऽपि वास्योदयगो विनाशं बहुप्रकारं कुरुतेऽध्वगानाम् ॥' इति । श्रीपतिरपि-'नेष्टश्चतुष्टये वक्री तद्वर्गोऽपि विलग्नतः । करोति बहुधा नाशं तद्वारोऽपि यियासताम् ॥' इति । चतुष्टयं केंद्रम् । यत्तु वसिष्ठेनोक्तम्-‘एकोऽपि वक्रगः खेटो लग्नस्थो वारिराशिगः। नीचस्थो वा तदंशस्थो यात्राफलविनाशनः ॥' इति । वारिराशिः चतुर्थस्थानम् । नारदेनापि-विलोमगो ग्रहो यस्य यात्रालग्नोपगो यदि । तस्य भंगप्रदो राज्ञस्तद्वर्गोऽपि विलग्नगः ॥' इति । तद्वक्रीग्रहस्य लग्नादिस्थितत्वे दोषाधिक्यं सूचयितुम् । तर्हि कस्य वारे गमनं कार्यमित्याह वसिष्ठः-'बलप्रदस्य खेटस्य वारवर्गः शुभप्रदः । इतरग्रहवारादियात्राया.