________________
विलोमगः शुभ इति मतं] यात्राप्रकरणम् ११ । वालिसुग्रीवयोर्युध्यमानयोर्भगवता रामेण वालिनि हते वालिनि सुग्रीवापेक्षया दौर्बल्यं मन्यते शूराभिमानिन इति । किंच दक्षिणाशायां धनिष्ठोत्तरार्धादिपंचकं त्याज्यमित्युक्तं तत्राश्विनीत्यागे धनिष्ठादिषद्धं त्याज्यमित्येवं कस्मान्नोक्तम् ? नच प्रेतदातृणकाष्ठसंग्रहादिनिषेधार्थ तथाभिधानमिति वाच्यम् । वाक्यान्तरे हि प्रतिपदमेव पंचकस्य निषेधात् । यदाह वसिष्ठः-'वसुभस्योत्तरार्धाच्च पंचधिष्ण्येषु सर्वदा । याम्यदिग्यायिनां नृणां न मुहूर्तों जयप्रदः ॥' इति । अन्यच्चापरे माहुः-पश्चिमे पुष्यस्त्याज्य इत्युच्यते च । श्रीपतिना तु-'हस्तः पुष्यः' इत्यादिना पुष्यस्य सर्वदिग्द्वारगत्वमुक्त्वा नक्षत्रप्रकरणे-'ग्रहेण विद्धोऽप्यशुभान्वितोऽपि विरुद्वतारोऽपि विलोमगोऽपि । करोत्यवश्यं सकलार्थसिद्धिं विहाय पाणिग्रहमेव पुष्यः॥' इत्युक्तम् । अत्र हि 'विलोमग' इति पदं टीकाकृन्महादेवो विलोमगः प्रतीच्यादिगमनविरुद्धोऽपि तत्र शुभ इति शब्दार्थ व्याख्यत् ; तस्यायमाशयः-पुष्यो हि प्राचीनक्षत्रं तद्दक्षिणस्यां पश्चिमायां वा पारिघदंडसत्त्वाद्विदिग्गमनप्रतिबंधकर्तृ सदपोद्यते । तत्र 'द्विर्बद्धं सुबद्धं भवति' इति न्यायात्पुष्योऽपि सर्वदिग्द्वारग एव । यद्येवं हस्तेऽप्यपवादः पुण्यवत्कार्यः स्यात् तुल्यन्यायत्वात् । एककर्तृके ग्रंथे एकेनैव वाक्येन सर्वदिग्द्वारत्वे सिद्धे पुनरन्येनाभिधानं व्यर्थ स्यात् । तस्मान्नैवं शक्यं वक्तुमतः प्रागुक्तमेवोपोद्धलकं सत् । यद्येवं कस्तर्हि विलोमग इत्यस्यार्थः ? केचिदाहुः-विलोमं विपरीतं गच्छतीति विलोमगः । यथा-'तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः' इति वराहोक्तेर्यदोत्पातेन विलोमगामित्वं पुष्यस्य स्यात्तदापि न दोषः । यथा भौमस्योष्णादिपंचविधं वक्रत्वमुक्तं तत्रोष्णं वक्रम् । 'स्वस्वोदयन्निवमेऽष्टमे वा सपलंगे वा क्षितिजे प्रतीपे । तद्वक्रमुष्णाह्वयमेव तत्र वहेर्भयं व्याधिभयं जनानाम् ॥' इति वसिष्टेन सलक्षणमुक्तम् । तत्रैतादृशं वक्र न कदाचित्संभवति तथापि उत्पातवशाद्गणितविरुद्धापि वक्रगतिः स्यात्तदर्थ फलोपन्यासः। एवं पुष्यवक्रत्वमप्यालोच्यम् । एतद्व्याख्यानं निर्मूलत्वादुपेक्ष्यम् । यथोष्णस्य वक्रस्यासंभवस्तथा पितृचरणष्टोडरानंदे भौमचारे सम्यक् प्रत्यपादि । अन्ये त्वाहः । विलोमगोऽपि विलोमग्रहाधिष्ठितोऽपि शुभः 'एकार्गलहतं धिष्ण्यं क्रूराक्रांतं च विद्धभम् । उत्पातदूषितं यत्तद्यात्रायां भंगदं सदा ॥' इति वसिष्ठादिवाक्यात् । क्रूरस्य वक्रिणो मार्गिणो वा योगो दुष्ट एव । अत एवाशुभान्वितोऽपि पुष्यः सकलार्थसिद्धिदातेत्युक्तम् । अनेन तु सौम्यस्य गुर्वादेर्वक्रिणो योगेऽपि अशुभफलदाता पुष्यो न स्यात् । तञ्चित्यम् । मूलभूतार्षवाक्यानुपलं. भात् । यत् वक्रिसौम्यग्रहयोगेप्यशुभफलदाता पुष्यो न भवेदिति । तथा हिनारदः-'पुष्यः परकृतं हंतुं शक्तस्तेनापि यत्कृतम् । दोषं परो न शक्तस्तु चंद्रेऽप्यष्टमगे सति ॥ रैर्विद्धो युतो वापि पुष्यो यदि बलान्वितः । विना पाणिग्रहं सर्वमंगलेष्विष्टदः सदा ॥' इति । वसिष्ठादिवाक्यान्यप्येवमर्थकानि मंति न कुत्रापि विलोमग इत्यभिहितम् । किंच सौम्यवक्रिग्रहाधिष्ठितोऽश्विन्यादिभगणश्चेत्तदाऽश्विन्यादेर्दोषवत्ता भवन्मते प्रसज्यते सा चाप्रसिद्धा । अन्यच्च विलोमग्रहाधिष्ठितत्व लक्षणया व्याक्रियते मुख्यार्थसंभवे साऽप्र