________________
३५६
मुहूर्तचिंतामणिः । [सर्वदिक्त्वबहुदिक्त्वविचारः मर्यते । चतुर्णा का कथा? बहुमुनिवचनसंवादात् । तत्र मृगरेवतीश्रवणधनिष्ठानां सार्वद्वारिकत्वमावश्यकगमनेऽभ्यनुज्ञानार्थ; तत्र यदि पुष्यादीनि भानि दिग्विशेषेण त्यजेरन् तदा बहुदिक्त्वं स्यात् न सर्वदिक्त्वम् । ननु को विशेषः सर्वदिक्त्व-बहुदिक्त्वयोः? उच्यते—सर्वशब्दः शक्त्या वस्तुमात्रवचनः, तत्र वस्तुसंघ गृहीत्वैकस्योपपत्तिः-सर्वः पदार्थ इति तस्यैव द्वित्वे च सौ पदार्थों इति भवति । सर्वे इत्यत्र तु वस्तुगतं संघगतं च बहुत्वं सर्वशब्देनोच्यते, तदेव वचसा द्योत्यते । अत्र सर्वे इति बहुवचनेन त्रिचतुरादयः पदार्था उच्यते, बहुशब्देन त्रय एवोच्यते नाधिकाः । बहूनामंत्रयस्वेत्युक्ते चतुरादिशब्दासन्निधाने त्रय एव निमंत्र्यते। किमत्र प्रमाणम् ? इति चेच्छणु । मीमांसायां एकादशेऽध्याये 'वसंताय कपिंजलानालभेत' इति वैदिके वाक्ये विचारितम् । वसंताय वसंत इत्यर्थः। छांदसंरूपम् । कपिंजलाः पक्षिविशेषाः तानालभेत हन्यात् । तत्र कपि. जलानिति बहुत्वं तावत् गम्यते, तेन ज्यादयः परार्धावधिकाः कपिंजलास्त्रयो वा चत्वारो वा पंच वेति विकल्पेनालब्धव्या उत त्रय एवेति संशयः । तत्रैवं पूर्वपक्षा-कपिंजलानिति बहुवचनेन द्वित्वातिरिक्तसंख्या सामान्यरूपेणाभ्यधायि तद्विशेषाकांक्षायां सत्यांच्यादिपरार्धान्तातिरिक्तसंख्याविशेषाभावात् त्र्यादिसंख्याविशेषा आक्षिप्यते। नच तत्र त्रयोऽपि चत्वारोऽपि पंचापि हंतव्या इति संख्यांतरमेव तत्र प्रतीयते न यादयः। नच कपिंजलत्वावच्छेदकावच्छिन्नाः कपिजला हंतव्या इति वाच्यं । तथा सत्येकस्मिन्नेव यागे कृते जगतीतलवर्तिनां सर्वेषां कपिंजलानां विनाशप्रसंगः, तस्माद्यथाप्राप्तानां त्रिचतुरादीनां तेषामेव विकल्पेनालंभ इति । उक्तं च जैमिनिना पूर्वपक्षसूत्रेण 'बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात्'इति। सिद्धांतस्तुघटानानयेतिवदुच्चारितस्य बहुवचनांतस्य शब्दस्य चतु. रादिशब्दोपादानमंतरेण त्रित्वमानं वाच्यम् । तावतैव बहुत्वोपपत्तेः। अतिरिकाक्षेपे च प्रमाणाभावः । तस्मात्रय एव कपिंजला हिंस्याः । उक्तं च जैमिनिना-'प्रथमं वा नियम्येत कारणादतिक्रमः स्यात्' इति सिद्धांतसूत्रेण । अत एव बहुत्वं त्रित्वे पर्यवसन्नमिति लोकोक्तिः साधीयसी। एवं प्रस्तुतेऽपि दीयतां दृष्टिः। नन्वत्र प्रकृतिवाच्यमेकं बहुत्वमपरं विभक्तिवाच्यं, तेन सर्वशब्दसाम्यमिति चेन्न । प्रातिपदिकार्थेति सूत्रे वचनमाने प्रथमोक्तेः साधुत्वाख्यानार्थ बहव इत्यादौ प्रकृतिगतबहुत्वव्यंजकबहुवचनोत्पत्तिः । बहुः ओदनः इत्यत्र बहुवचनं कस्मान्न भवति? सत्यम् । नात्र बहुशब्देन संख्योच्यते।किंतु वैपुल्यम्। तस्माद्बहुशब्देन त्रित्वसंख्योच्यते । सर्वशब्देन तु चतुरादिका अपिअतोऽत्र महान्भेदः। ननु एवं पुष्यादीनां सर्वदिक्त्वे समर्थिते सत्यपि नैव सर्वदिक्त्वोपपत्तिः। यावता वारशूलसद्भावः तदिग्वर्जनादिक्त्रयमेवावशिष्यते, तेन बहुदिक्त्वमेवोपपद्यते इति । उच्यते-नैतावता भवदिष्टं सिध्यति । 'प्राची श्रवणशक्राभ्याम्' इत्यादिना नक्षत्रविशेषे दिग्विशेषत्याग इति । यतो वारशूलेनायमर्थ उच्यते-रविवारे पश्चिमशूलं, सोमे पूर्वेत्यादि । अतः बहुदिक्त्वसर्वदिक्त्वप्रतिपादकयोरन्यतरस्य सर्वदिक्त्ववाक्यस्य सबलत्वे निर्णीते तृतीयेन वारशूलेन सर्वदिक्त्वं ब्याहतं यद्यपि तथापि नियतबहुदिक्त्ववाक्यात्तु सबलमेव । नहि यथा