________________
अपवादादरणे निषिद्धानि ] यात्राप्रकरणम् ११ ।
३५५
वारशूलं नक्षत्रशूलं च विहाय त्यक्त्वा यदि दिक्तनुशुद्धिरस्ति स्यात् । अस्तीति स्यादित्यस्यार्थेऽव्ययम् । पूर्वादिचतुर्दिक्षु मेषादयस्त्रिरावृत्ता दिग्राशयः स्युस्त एव तस्यांतस्यां दिशि दिग्लग्नशब्देन व्यवहियंते तेषां शुद्धिः शुभफलदातृग्रहानुकूल्यसाहित्यं स्यात् । यदाह श्रीपतिः - 'प्रयोजनेष्वात्ययिकेषु भूपतिर्विलंध्य रेखामपि पारिघीं व्रजेत् । विहाय दिक्शूलसमाह्वयानुडून्यदि स्वदिग्लग्नविशुद्धिराप्यते ॥' इति । उडुशब्देन वारोऽप्युपलक्ष्यते । यतो वराहेण - 'उल्लंघ्य दंडमपि काममियान्नरेंद्रः शूलं विहाय यदि भस्य विलग्नशुद्धिः ॥ इत्यत्र शूलं विहायेति सामान्यतोऽभिधानात् । अत्र दिग्राशीनाह नारदः'दिग्राशयः स्युः क्रमशो मेषाद्याश्च पुनः पुनः' इति । फलमाह वसिष्ठः'पूर्वादिदिक्षु मेषाद्याः क्रमाद्दिग्द्वारराशयः । तत्तच्छुद्धिवशात्सर्वे तद्दिग्यातुः शुभप्रदाः ॥ तद्वर्गाश्च तदंशाश्च तदीशाश्च तथाविधाः ॥' इति ॥ ३४ ॥
अथानावश्यकत्वेऽपि पारिघदंडापवादे चिकीर्षिते सर्वदिग्द्वारकनक्षत्राणि वक्रिग्रहस्य केंद्रगतत्वादिनिषेधं चेंद्रवज्रयाह
मैत्रार्कपुष्याश्विनभैर्निरुक्ता यात्रा शुभा सर्वदिशासु तज्ज्ञैः । वक्री ग्रहः केंद्रगतोऽस्य वर्गो लग्ने दिनं चास्य गमे निषिद्धम् ३५
मैत्रार्केति ॥ मैत्रमनुराधा, अर्को हस्तः, पुष्यः प्रसिद्धः, आश्विनमश्विनी; एतैश्चतुर्भिर्नक्षत्रैः ः कृत्वा सर्वदिशासु प्राच्यादिचतुर्दिक्षु तज्ज्ञैज्र्ज्योतिर्विद्भिर्यात्रा गमनं शुभा शुभफलदा निरुक्ता । यदाह वसिष्ठः - 'पुण्यार्काश्विनमैत्राणि सर्वदिग्द्वारभानि च । सर्वदिक्ष्वपि यात्रायां सर्वकामार्थदानि च ॥' इति । नारदः - 'पुष्ये मैत्रे करेऽश्विन्यां सर्वाशागमनं शुभम् ।' आशाः = दिशः । श्रीपतिरपि - 'हस्तः पुष्यो मैत्रमप्याश्विनं च चत्वार्याहुः सर्वदिग्द्वारभानि' इति । यत्तु बालवोधिन्याम् — 'पूर्वाद्याः शनिचंद्रगीष्पतिबुधादित्येषु शुक्रे कुजे नो गम्याः क्रमशस्तथा परिहरेत्प्राचीं च मूलेंद्रयोः । याम्यां च श्रवणादिषट्सु विधि पुष्ये प्रतीचीं त्यजेत्सौम्यां चोत्तरफाल्गुनीष्वपि तथा हस्ते न यायादुधः ॥' इति प्रागादिचतुर्दिक्षु श्रवणाश्विपुष्यहस्तानां क्रमेण त्याग उक्तः, स निर्मूलत्वादुपेक्ष्यः । किंच यद्येषामपि निषेधो वसिष्ठादीनामभिमतः स्यात्तदा 'पुरुहूतदिशं पुरंदरर्क्षे' इत्यादिनक्षत्रशूलपद्ये शूलनक्षत्रद्वयाभिधानं 'पुरुहूतदिशं हि विष्णुशा नेयाद्याम्यदिशं त्वजांघ्रिदास्त्रे । जलनाथदिशं विधातृपुष्ये शूलाख्यान्यथ सौम्यमर्यमार्के' इति सकृदेव कृतं स्यात् । एवमेव च नारदादीनामाशयो व्याख्येयः । बालबोधिनीवद्भिन्नं वाक्यं तु दूरापास्तमेव । अन्यच्च पुष्याद्यष्टभानां क्वचित्सार्वदिग्द्वारिकत्वं स्मर्यते । यदाह गुरुः - 'पुष्याश्विहस्तमैत्राणि पौष्णवैष्णव सौम्यभम् । वासवं सर्वदिक्ष्वाशु यात्रायां शोभनानि हि ॥' इति । वराहोऽपि – 'सार्वहारिकसंज्ञितानि गुरुभं हस्ताश्विमैत्राणि च श्रेष्ठान्यैदवपौष्णविष्णुव सुभान्याद्यैः सहाष्टौ सदा' इति । तत्राष्टानामपि सार्वदिग्द्वारिकत्वं
-