________________
३५४
मुहूर्तचिंतामणिः । [ सापवादः पारिषदंडदोषः
इति । अन्यच्च गृहप्रवेशे पूर्वादिदिग्द्वारेषु गृहेषु तत्तद्दिनक्षत्रैः प्रवेशश्वोक्तः । तदुक्तं वसिष्ठेन - 'यहिग्द्वारं मंदिरं तद्दिगृक्षैरुक्तक्षैः स्यात्संनिवेशो न सर्वैः ॥' इत्यादीनि प्रयोजनानि ध्येयानि । तत्र प्रस्तुते पारिघदडोक्ते रेवं ज्ञायते । यद्धनिष्ठादिचतुर्दशभानि प्रागुत्तरदिशोर्यात्रायां प्रशस्तानि । मघादिचतुर्दशभानि दक्षिणपश्चिमदिशोः प्रशस्तानि । तत्र स्वदिशि प्रशस्ततमानि अन्यदिशि प्रशस्तानि । यथा - मघादिसप्तभानि पश्चिमायामनुराधादिसप्तभानि दक्षिणस्यां प्रशस्तानीत्यर्थः । अत एवाह दुर्गादित्यः - 'प्राग्दिग्गतैरुदग्दिशमुदग्गतैः प्राग्दिशं भनक्षत्रैः । दक्षिणगैरपरां दिशमपरगतैर्दक्षिणां यायात् ॥' इति । भानि =राशयो मेषाद्याः । नक्षत्राणि = कृत्तिकादीनि । यवनेश्वरोऽपि — 'प्राचीमुदग्द्वारिभिरत्र यायात्प्राग्द्वार भैश्वोडुभिरप्युदीचीम्। तथैव याम्यामपराश्रितै भैर्याम्याश्रयैश्वाप्यपरां प्रयायात् ॥' इति । एतेन - 'नो गच्छेदुत्तराशां त्रिदशपतिककुब्भैर्न याम्यप्रतीच्यैः' इति वदन् महेश्वरः प्रत्याख्यातो भवति । मूलवाक्यानुपलंभात् । किंतु सर्वथा प्रागुदङ्नक्षत्रैर्दक्षिणां पश्चिमां च नैव गच्छेत् । तथा दक्षिणपश्चिमनक्षत्रैः प्राचीमुदीचीं च नैव गच्छेत् पारिघदंडसत्त्वात् । यदाह बृहद्यात्रायां वराहः - 'दिशि दिशि बहुलाद्यास्तारकाः सप्त लेख्याः पवनदहनदिक्स्थस्तिर्यगत्युग्रदंडः । सुरपतिरपि कृच्छ्रं याति तं लंघयित्वा न हि भवति विरोधो दिक्षु दंडैकगासु ॥' इति ॥ ३३॥
अथ कस्यचिद्विदिग्गमनं चिकीर्षितं तदा पृथङ्नक्षत्रोपदेशाभावात्तासु विदिक्षु आग्नेय्यादिषु कैर्नक्षत्रैर्गमनं स्यादित्याशंक्य विदिक्षु नक्षत्राणि आवश्यकत्वे पारिघदंडापवादं च वसंततिलकावृत्तेनाह
अर्दिशं नृप इयात्पुरुहूतदिग्भै
रेवं प्रदक्षिणगता विदिशोऽथ कृत्ये । आवश्यकेsपि परिघं प्रविलंघ्य गच्छेच्छूलं विहाय यदि दिक्तनुशुद्धिरस्ति ॥ ३४ ॥
अग्नेरिति ॥ नृपः पुरुहूतदिक् प्राची तदुत्थैः कृत्तिकादिसप्तनक्षत्रैः अग्नेदिशमाग्नेयीमियाद्गच्छेत् । एवमनेन प्रकारेण प्रदक्षिणगता सृष्टिमार्गेणास्थिताविदिशो नैर्ऋत्यादीर्गच्छेत् । यथा - दक्षिणदिक्स्थैभैर्मघादिसप्तभिर्नैर्ऋती दिशं गच्छेत् । प्रतीचीस्थैरनुराधादिसप्तभिर्भैः वायव्यां गच्छेत् । उदीचीस्थैर्धनिष्ठादिसप्तभिर्भैः ऐशानीं गच्छेदित्यर्थः । यदाह नारदः - 'आग्नेयीं पूर्वदिक्संस्थैर्विदिशस्त्वेवमेव हि ।' इति । अस्यार्थ स्पष्टमाह गुरुः- 'प्राग्द्वारिकैश्व नक्षत्रैराग्नेय्यां शोभना गतिः । दक्षिणस्थैश्च नैर्ऋत्यां वायव्यां वारुणैरपि । ऐशान्यां दिश्युदक्संस्थैर्यात्रातीव शुभप्रदा ॥' इति । अथ पारिघदंडापवाद उच्यते - अथेति ॥ आवश्यके कृत्ये अवश्यकर्तव्ये गमनादिकृत्ये पारिवमपि पारिघदंडमपि प्रविलंघ्य लंघयित्वा नृपो गच्छेत् । परंतु शूलं