SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ पारिघदंडदोषः] यात्राप्रकरणम् १ । सूर्यचंद्रकालानलचक्राणि युद्ध एव विचार्याणि यथासंभवमन्येषु शुभकृत्येष्वपि विचार्याणि । उक्तं च तत्रैव-'लाभालाभं सुखं दुःखं जयं चैव पराजयम् । चंद्रकालानले चक्रे ज्ञानं संशयवर्जितम् ॥' इति । तथा 'यात्राजन्मविवाहेषु संग्रामे विग्रहेऽपि च । घोरकालानलं चक्रं ज्ञात्वा कर्म समारभेत् ॥' इति । अथ सामान्ययात्रायामप्यावश्यकानावश्यकवशेन यथासंभवं सांहितिकदोषहानिर्विचार्या । अन्यथा हि सर्वेषां स्वरोदयस्थानां साहितिकानां च स्थूलसूक्ष्मदोषाणां त्यागो वर्षसहस्रेणापि दुःशकः स्यात् । तत्रापि गुणानां भूयस्त्वं दोषाणां चाल्पत्वमंगीकृत्य निखिलकृत्यं निर्वाह्यम् । उक्तं च श्रीपतिना-समस्तगुणसंपदां न खलु लब्धिरल्पर्दिनैर्गुणप्रचुरता ततो बहुमता च दोषाल्पता । न भूरिगुणसंचये प्रभवतीह दोषोऽल्पको धुंदर्चिषि हुताशने सलिलबिंदुरेको यथा ॥' इति । तत्रापि महादोषः पापग्रहवेधयुतिकर्तरीमहापातादिश्चेत्तदावश्यं वयं एव । यदि तत्समः प्रतीकारकारको गुणो न भवेत् । उभयसंभवे हि प्रबलदुर्बलविचारः कार्यः । तदप्युक्तं श्रीपतिना-'एकोऽपि हंति गुणलक्षमपीह दोषः कश्चित्परो यदि गुणोऽस्ति न तद्विरोधी । मद्यस्य बिंदुरपि पावनपंचगव्यं संपूर्णमत्र कलशं मलिनीकरोति ॥' इत्यास्तां प्रसक्तानुप्रसक्तेन ॥ ३२॥ अथ पारिघदंडाख्यं दोषमनुष्टुभाह भानि स्थाप्यान्यब्धिदिक्षु सप्तसप्तानलद॑तः । वायव्याग्नेयदिक्संस्थं पारिवं नैव लंघयेत् ॥ ३३ ॥ भानीति ॥अब्धिदिक्षु चतुर्दिक्षु अनलक्षतः कृत्तिकातः सप्त भानि पूर्वस्यां स्थाप्यानि, मघातः सप्त भानि दक्षिणस्यां स्थाप्यानि, अनुराधातः सप्त भानि पश्चिमायां स्थाप्यानि, धनिष्ठातः सप्त भान्युत्तरस्यां स्थाप्यानि तत्र वायव्याग्नेयदिगुपनिबद्धा रेखा पारिघदंडः स्यात्तं सर्वथा नैव लंघयेत् । चक्राकृतिरियम् । यदाह नारदः-'क्रमादिग्द्वारभानि स्युः सप्तसप्ताग्निक्षतः । पारिघं लंघयेइंडं नाग्निश्वसनदिग्गतम् ॥' इति । कश्यपोऽपि-'अग्निधिष्ण्यात्सप्त सप्त क्रमाद्धिष्ण्यानि पूर्वतः । वाय्वग्निदिग्गतं दंडं पारिघं तु न लंघयेत् ॥' इति । ननु प्रागादिदिङ्न्यस्तानां नक्षत्राणां प्रयोजनं किं नोक्तम् ? पारिघदंडाख्यानार्थत्वं तु धनिष्ठादिचतुर्दशभानि वायव्यानेयदिशोः पूर्वभागे स्थाप्यानि । मघादिचतुर्दशभानि तयोरेव दिशोः पश्चिमविभागे स्थाप्यानीत्येवमर्थकपद्योपनिबंधनेन स्यात् । उच्यते-स्पष्टत्वानोक्तम् । तथा हि-प्रारद्वारिकैः कृत्तिकादिकसप्तनक्षत्रैः पूर्वस्यां यात्रा प्रशस्ततमा । एवं दक्षिणस्यां मघादिसप्तभैः । पश्चिमायामनुराधादिसप्तभैः । उत्तरस्यां धनिष्ठादिसप्तभैः । अयमर्थो यात्राप्रकरणे-'क्रमाद्वारभानि स्युः' इति नारदकश्यपायुक्तलभ्यते । किंच त्रिविधप्रतिशुक्रविचारेऽपि दिग्द्वारभानामुपयोगोऽस्ति । यदाहात्रिः-'यदिग्गतः समुदयेद्विचरेद्यत्र गोलके । यद्वारभेषु विचरेत्रिविधं प्रतिभार्गवम् ॥' इति । श्रीपतिश्च-'विचरति च भचक्रे येषु दिग्द्वारभेषु'
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy