________________
३५२
मुहूर्तचिंतामणिः ।
[ राज्ञो जयचर्या
धैरगुरह्नि पाशिककुभोऽसौ षष्ठषष्ठी निशि । पृष्ठे दक्षिणतः शुभो द्विघटिकोऽसौ तुर्यतुर्यां व्रजन्नीशावाक्पवनेंद्रराक्षसमरुद्वह्निप्रतीचीं दिशम् ॥' इति । अत्र यामाराह दिने प्राच्याः सकाशात्षष्ठषष्ठदिग्गणनोक्ता रात्रौ तु प्रतीच्याः सकाशातथैवोक्ता । उत्तरार्धे मौहूर्तिकराहौ तु दिनरात्रिविभागो नोक्तस्तट्टीकाकृता भरतेन तथैव व्याकृतश्च यथा - अथ द्विघटिको मौहूर्तिको राहुः प्रातरारभ्यैशानीतश्चतुर्थचतुर्थदिशं मुहूर्ते मुहूर्ते याति दिनरात्र्योर्द्वात्रिंशन्मुहूर्ता अष्टदिशां चत्वारो भ्रमास्तत्र क्रमः ऐशानीदक्षिणवायव्यपूर्वनैर्ऋतोत्तराग्नेयपश्चिमास्त्रिति । तदेतन्निर्मूलं मूलवाक्यानुपलंभात् । ननु कस्तर्हि तदुक्तावाशय इति चेत् । सत्यम् । तदेवोच्यते — स्वरोदये हि यामार्धराहौ षष्टषष्ठदिग्गणनोक्ता, मुहूर्त हौ तु दिने चतुर्थचतुर्थदिग्गणनामभिधाय रात्रौ तु षष्ठषष्ठदिग्गणनोक्ता सा अनुचितेत्यभिसंधाय स्वयं स्वपद्ये षष्टषष्ठदिग्गणनामुररीकृत्य दिनरात्रिवि - भागेन यामार्धराहुरुक्तः । मुहुर्तराहुरीशानतश्चतुर्थचतुर्थदिग्भागेन दिनरात्रिविभागमनात्योक्त इति । अथैवंविधे पाठे मूलांतरं मृग्यं । ऋषीणां तु स्वतत्रेच्छानां पर्यनुयोगानर्हत्वात्स्वरोदय एवमुक्तिः । एतादृशः स्थूलः सूक्ष्मो वा राहुः कस्यां दिशि शुभोऽशुभो वेति स्वरोदय एवाभिहितम् - 'संमुखा वामसंस्था वा यस्येयं राहुमंडली । पराजयो भवेत्तस्य वादद्यूतरणादिषु ॥ यस्य दक्षिणपृष्ठस्था ह्येषा राहुपरंपरा । सहस्रं स शतेनापि परसैन्यं निकुंतति ॥' इति । समरसारेऽपि — 'पृष्ठे दक्षे योगिनी राहुयुक्ता यस्यैकोऽयं शत्रुलक्षं निहंति । श्रेष्ठं सर्वेभ्यो बलेभ्यस्तदेव संक्षेपोऽयं सर्वसारोऽभ्यधायि ॥ ' इति । ननु योगिनी कालपाशवारयोगिनी मृतपक्षखंडराह्वादिभिः स्थूलैर्दोषैरर्श्वयामराह्वादिभिः सूक्ष्मैश्च स्वरोदयस्थैस्तथा सांहितिकैश्चायनशूलनिषिद्धमासवारशूलनक्षत्रनिषिद्धनक्षत्रपारिषदंडमृतपक्षादिभिश्च दोषैर्यात्रादिनोऽनुन्मेष एव । तथा हि- रवौ पूर्वस्यां वारयोगिनी दक्षिणस्यां पाशो दिवा रात्रौ तु कालः पश्चिमायां वारशूलं उत्तरस्यां कालो दिवा रात्रौ तु पाशः, विदिशस्तु महादिगंतर्गत एव, 'प्रादक्षिण्यं चैवमाशो विपूर्वाः' इति श्रीपत्युक्तेः । एवं सति रविवारे कस्यामपि दिशि यात्रा न स्यादन्ये पुनर्दोषा मृतपक्षादयो विचारणीयाः । एवं सति एवं सोमवारादिष्वपि यथासंभवं दोषा ऊहनीया इति प्रागुकदोषो वज्रायितः । अत्र समाधिः - अयं सर्वोऽपि स्वरोदयस्थो मृतपक्षयोगिनीकालपाशादिस्थूलसूक्ष्मदोषविचारो युद्धयात्रायामेव बहुधा विचार्यः प्रकरणस्यापि नियामकत्वात् । तथा हि- सर्वेष्वपि खरोदयग्रंथेषु नरपतिजयचर्या उच्यते । सा च युद्धं विना न संभवति । अत एव स्वरोदयबले प्रोक्तम्'पुष्पैरपि न योद्धव्यं यावद्धीनः स्वरोदयः । स्वरोदयबले प्राप्ते योद्धव्यं शस्त्रकोटिभिः ॥' इति । तथा चतुरशीतिचक्रांतेऽप्युक्तम् — 'एतानि सर्वचक्राणि ज्ञात्वा युद्धं समारभेत् । जयेदिह न संदेहः शक्रतुल्येऽपि वैरिणि ॥' इति । तथा भूपालवल्लभेऽप्युक्तम्- ' इमानि भूबलान्यत्र ज्ञात्वा यः प्रविशेद्रणम् । अरयस्तस्य नश्यति मेघा वातहता यथा ॥' इति । एवं सति सर्वतोभद्रकालदंष्ट्रा
१ यात्रादिनः यात्रायुद्धादिकृत्यस्य ।