________________
मुहूर्तराहोर्दिग्गणना] यात्राप्रकरणम् ११ ।
३५१ गाश्रयः' इति वचनात् । ननु कालपाशयो मवैपरीत्यं स्वरोदयस्थवाक्ये कुतो नोक्तमिति चेत् । सत्यम् ; साक्षात् नोक्तं परंतु स्वरोदयकर्तुरभिप्रेतमस्तीत्यनुमीयते । तथा हि-यद्यपि 'घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ' इति कोशात् । 'दशाहं शावमाशौचं सपिंडेषु विधीयते' इति धर्मशास्त्रोक्तेश्चाहःशब्दस्याहोरात्रपरतैव । तथापि 'आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी' इत्यादिषु निशीति पदोपादानादहःशब्दः सूर्यदर्शनपरिच्छेद्यकालवाचको यथास्ति तथेहापि 'वारोऽहः पूर्वदिग्भागे' इत्यत्र वासरः पूर्वदिग्भागे इति वक्तव्येहःशब्दोपादानान्यथानुपपत्त्याहःशब्दः सूर्यदर्शनपरिच्छेद्यं कालमाह । तेनाहनि दिवसे ह्येवं विचारो नतु रात्रावतस्तत्र वैलक्षण्यं तद्वैलक्षण्यं नाम किं वैपरीत्यमित्यर्थः । अतः पूर्वोक्तम् 'रात्रावेतौ व्यस्तसंज्ञौ तु चिंत्यौ' इति । अथ कालपाशप्रसंगात् खंडराहुरुच्यतेऽस्माभिः। यथा स्वरोदये-'ऐयां कृष्णे तृतीयायां सप्तम्यां शूलिनो दिशि । दशम्यां धनदाशायां वायव्यां भूतवासरे॥ शुक्लपक्षे तु वारुण्यां चतुर्थी समुदेत्यसौ । नैर्ऋत्ये च तथाष्टम्यामेकादश्यां यमौकसि ॥ आग्नेय्यां पंचदश्यां च मासे राहूदये सति । खंडगत्या भ्रमत्येवं खंडराहुस्ततो मतः ॥' इति । यमौकसि दक्षिणस्यां । शूलिनः ईशानस्य । अतस्तस्यां दिशि तत्तिथौ राहुसद्भावान्न गंतव्यमिति वाक्यतात्पर्यार्थः। एतासु भद्रातिथिषु भद्रामपहाय तद्दिक्तोऽन्यस्यां दिशि सुखेन गंतव्यमिति । खंडे तिथिखंडे तिथ्यधै भद्रारहिते गमनं गतिरित्यन्वर्थत्वमपि खंडराहो प्रतीयते । अथ सूक्ष्मोऽधः यामकाल उक्तः समरसारे-'हालांतकाभसखियामदलैस्तु कालः सूर्यादिवासरगतो युधि वर्जनीयः । भासारमे दलति यामदलानि भानुवारक्रमादपि पुनः स्वहितार्थमूहेत् ॥' इति । रवौ हाकारोपलक्षितोऽष्टमोऽधयामः, एवं सोमे तृतीयः, भौमे प्रथमः, बुधेऽपि प्रथमः, गुरौ चतुर्थः, शुक्रे सप्तमः, शनौ द्वितीयो युध्येव वर्जनीय इति पूर्वार्धस्यार्थः । उत्तरार्धे तु साहितिका अर्धयामा उक्ताः समस्तशुभकर्मसु निषिद्धाः । ग्रंथकापि विवाहप्रकरणेऽभिहिताः । अर्धयामो नाम दिनस्य रात्रेऽष्टमो भाग इति । अथार्धयामराहुरप्युक्तः स्वरोदये-'इंद्रवायुयमे रुद्रतोयाग्निशशिभास्करे। यामार्धमुदितो राहुर्धमत्येवं दिगष्टके ॥' इति । अयं यामार्धराहुभ्रमो दिवसे रात्रौ च तुल्यो ज्ञेयो विशेषानुक्तेः । अथ तत्रैव मुहूर्तराहुरप्युक्तः-'ईशानयमवातेंद्ररक्षःसोमाग्निवारुणे। पूर्वाह्नेऽपि भ्रमत्येवमपराह्नेऽप्ययं क्रमः॥ जलाग्निसौम्यनैर्ऋत्यशक्रानिलयमे हरे । पूर्वरात्रे भ्रमत्येवाऽपररात्रेऽप्ययं क्रमः॥ दिनस्य षोडशांशेन मुहूर्तः परिकीर्तितः । एवं मौहूर्तिको राहुर्ज्ञातव्यः स्वरवेदिभिः॥' इति । दिनस्येत्युपलक्षणं, रात्रेरप्येवमेव; अत्र मुहूर्तराहौ दिने चतुर्थचतुर्थदिग्गणनोक्ता, रात्रौ तु षष्ठषष्ठदिग्गणनोक्ता। यत्तु रामवाजपेयिभिः समरसारे उक्तम्-'प्राग्वातांतकशंभुपाशिहुतभुपौलस्त्यरक्षोदिशो यामा
१ यवर्गे हकारोऽष्टमवर्ण इति तेनाष्टमोऽर्धयाम उपलक्ष्यते । एवं लकारस्तृतीयो वर्णः । तकारस्तवगें प्रथम इत्याह्यम् ।