________________
३५०
मुहूर्तचिंतामणिः। [काल-पाशयोगौ अथ कालपाशाख्यौ योगौ शालिन्याहकौबेरीतो वैपरीत्येन कालो वारेऽर्काये संमुखे तस्य पाशः । यात्रायुद्धे संमुखे वर्जनीयौ रात्रावेतौ व्यस्तसंज्ञौतु चिन्त्यौ ॥३२॥ ___कौबेरीति ॥ कुबेरो देवता यस्याः सा, 'सास्य देवता' इत्यण; आदिवृद्धिः, अण्णन्तत्वात् ङीप् । कौबेरी उत्तरा दिक्; ततः ल्यब्लोपे पंचमी । उत्तरां दिशमारभ्याऽर्काये वारे दिवसे वैपरीत्येन दिक्प्रातिलोम्येन संहारमार्गेण यस्यां दिशि वारेशस्थितिस्तस्यां दिशि कालः स्यात् । यथा-रविवारे उत्तरस्यां कालः, सोमे वायव्यां, भौमे पश्चिमायां, बुधे नैर्ऋत्यां, गुरौ दक्षिणस्यां, शुक्रे आग्नेय्यां, शनौ पूर्वस्यामित्यर्थः । अयमर्थः स्पष्टो रत्नसारे-रवावुत्तरतः कालः सोमे वायव्यभागके । भौमे तु पश्चिमे भागे बुधे नैर्ऋत्यकोणके ॥ जीवे च याम्यदिग्भागे शुक्रे चाग्नेयकोणके । शनौ तु पूर्वदिग्भागे कालचक्रं प्रकीर्तितम् ॥' इति । अथ पाशयोग उच्यते-ताय कालस्य संमुखे संमुखदिशि कालदिशातः पंचमदिशि तस्य कालस्य पाशो गलकर्तनरजः स्यात् । यथा-रविवारे दक्षिणस्यां पाशः, सोमे आग्नेय्यां, भौमे पूर्वस्यां, बुधे ऐशान्यां, गुरावुत्तरस्यां, शुक्रे वायव्यां, शनौ पश्चिमायामित्यर्थः। अथ फलमुच्यते-यात्रायामर्थयात्रायां, युद्धे युद्धयात्रायां; समाहारद्वंद्वः। तयोर्यात्रायुद्धयोरुपस्थितयोः सतोस्तौ कालपाशौ गंतव्यदिगवस्थितौ वर्जनीयौ । तदिशि न गच्छेदित्यर्थःअर्थाद्वामभागदक्षिणभागयोः कालपाशौ शुभौ। तत्रापि कालो दक्षिणभागस्थ एव शुभः, पाशो वामभागस्थ एव शुभ इत्यनुक्तोऽपि विशेषो ज्ञेयः । उक्तं च स्वरोदये-'वारोऽह्नः पूर्व दिग्भागे सतः सव्येन मंदगः। यत्रस्थस्तत्र कालः स्यात्पाशस्तस्य तु संमुखः ॥ दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रयः । यात्रायां समरे श्रेष्ठस्ततोऽन्यत्र न शोभनः ॥' इति । सव्येन प्रदक्षिणमार्गेण । मंदगः शनैश्चरः। अन्यत्र संमुखपृष्ठभागयोः । अयं कालपाशविचारो दिवैव । रात्रौ विशेष उच्यते । तुर्विशेषे । एतौ कालपाशौ तु रात्रौ व्यस्तसंज्ञौ विपरीतनामको चिंत्यो ज्ञेयौ । दिवा यस्यां दिशि कालस्तस्यां दिशि रात्रौ पाशः, दिवा यस्यां दिशि पाशस्तस्यां दिशि रात्रौ कालः। यथारविवासरे रात्रौ दक्षिणस्यां कालः, उत्तरस्यां पाशः, एवं सर्ववारेष्वित्यर्थः । उक्तं च–'सौम्यादौ वाममार्गेण रवितः कालसंस्थितिः । तत्संमुखे भवेत्पाशो रात्रौ ज्ञेयो विलोमतः ॥' इति । सोमो देवता यस्याः सा, 'सोमायण' इति देवतार्थे व्यण, णित्त्वादादिवृद्धिः; 'यस्येति च' इत्यलोपः। ततो 'हलस्तद्धितस्य' इति यलोपः । सौमी उत्तरा दिक्, तदादौ सौम्यादौ । ननु वय॑त्वाविशेषाद्रात्रौ किंनाम वैपरीत्येन कृत्यमिति चेत् । उच्यते-गंतव्यदिशि कालो दक्षिणभागस्थः शुभो यथा भवेत्पाशो वामभागस्थः शुभो यथा स्यादित्येवमर्थमुक्तिरन्यथा ह्यशुभ इत्यर्थः । 'दक्षिणस्थः शुभः कालः पाशो वामदि
१ प्रायोऽत्र 'रात्रावेतौ वैपरीत्येन गण्यौ यात्रायुद्धे संमुखे वर्जनीयौ।' इति मूलपाठो दृश्यते; परं टीकाकृत्संमत एव पाठोऽर्थप्रतीतौ सुसङ्गतिविधायक इति विभाव्य हस्तलिखितानुसारी पाठो मूले धृतः ।