________________
घातलमानि ] यात्राप्रकरणम् ११। दशमी च, ऐशान्याममावास्याष्टमी च; एतास्तिथयस्तत्तहिक्षु योगिन्याख्या इति जीर्णाः। तास्तिथयः संमुखवामगा न शस्ताः। यथा-प्राच्यां गंतुः प्रतिपत् संमुखी, दक्षिणस्यां गंतुर्वामा, पश्चिमायां गंतुः पृष्ठगा, उत्तरस्यां गंतुर्दक्षिणा; एवं सर्वासु दिक्षु सर्वास्तिथयो विचार्याः, तत्र संमुख्यो वामगाश्च तिथयो न शुभाः। अर्थाद्दक्षिणाः पृष्ठगाश्च तिथयः शुभाः। उक्तं च स्वरोदये-'पूर्वस्यामुदयेद्राही प्रथमे नवमे तिथौ । माहेशी चोत्तरस्यां तु द्वितीयादशमीतिथौ ॥ एकादश्यां तृतीयायां कौमारी वह्निकोणगा। चतुर्थी द्वादशी प्रोक्ता वैष्णवी नैर्ऋते तथा ॥ वाराही दक्षिणे भागे पंचमी च त्रयोदशी । षष्ठी चतुर्दशी चैव इंद्राणी पश्चिमे तथा ॥ पूर्णिमायां च सप्तम्यां वायव्ये चंडिकोदयः । नष्टचंद्रदिनाष्टम्योर्महालक्ष्मीः शिवालये॥' इति । नष्टचंद्रदिनं अमावास्या। विजयकल्पलतायाम्'पृष्ठतो दक्षिणे वापि योगिनी गमने हिता । वामसंमुखयोर्नेष्टा वायुमेवं विचिं. तयेत् ॥' इति । समरसारे अर्धप्रहरयोगिन्यप्युक्ता । यथा-'प्राक्सोमानलरक्षोऽवाक् पाशीरेशदिक्षु दर्शातैः । तिथिभिस्तिथिपदतोऽर्धप्रहरैरिव नव तु योगिनी शस्ता ॥' इति । अस्यार्थः-अत्र पूर्वार्धेन योगिन्युक्ता उत्तरार्धेनार्धप्रहरा योगिन्युच्यते 'तिथिपदत' इत्यादिना । ईरः समीरो वायुः, पदं स्थान स्थितिः। या तिथिर्यस्यां दिशि प्रागुक्तक्रमेणावस्थिता तत्तिथिमारभ्य सर्वयोगिन्यस्तेनैव क्रमेण तत्तिथिमध्ये वारद्वयं भ्रमंति । यथा-द्वितीयोत्तरस्यां योगिनी, तां षोडशधा विभज्य प्रथमो विभागो द्वितीयायाः; एवमुत्तरस्यामर्धप्रहरयोगिनीसंज्ञः द्वितीयो विभाग आग्नेय्यां तृतीयाया अर्धप्रहरयोगिनीसंज्ञ इत्यग्रिमाः सर्वे विभागाः अर्धप्रहरयोगिनीसंज्ञा ज्ञेया इत्यर्थः । उक्तं च स्वरोदये-'यत्रोदयगता देवी ततो यामार्धभुक्तिगा । भ्रमंती तेन मार्गेण भवेतत्कालयोगिनी ॥' इति । उदयः स्थानं, देवी योगिनी । विजयकल्पलतायामपि-'यत्रैता उदयं यांति भ्रमंत्येवं तिथिक्रमात् । ततो यामार्धभुक्त्यैव योगिन्यः स्वेष्टकालिकाः ॥' इति । 'नव तु योगिनी शस्ता' इति स्पष्टार्थम् । स्वरोदये तु वारयोगिन्यप्युक्ता-'इंद्रचंद्राग्निनैर्ऋत्ययाम्यतोयानिले हरौ । सूर्यादिषु च वारेषु वर्जयेद्वारयोगिनीम् ॥' इति । फलमपि स्वरोदय एव-'जयदा पृष्ठदक्षस्था भंगदा वामसंमुखी । त्रिविधं योगिनीचक्रमित्युक्तं ब्रह्मयामले ॥' इति । त्रिविधत्वं तु तिथियोगिन्यर्धप्रहरयोगिनीवारयोगिनीभेदतः ॥ ३१ ॥ अथ घातलग्नान्याह
भूमियब्ध्यद्रिदिवसांगाष्टांकेशॉग्निसायकाः ।
मेषादिघातलग्नानि यात्रायां वर्जयेत्सुधीः ॥ भूमीति ॥ स्पष्टार्थम् । एतदपि यात्रायां वय॑म् ॥
-
१ इदमपि सटीकं पद्यं निक्षिप्तमेव ।
३० मु. चि.