________________
३४०
मुहूर्तचिंतामणिः। [घात-वार-तिथि-योगिनीदोषाः गोत्रीति ॥ गौतषः, स्त्री कन्या, झषो मीनः; एतद्राशिमति नरे पूर्णा तिथि: पंचमीदशमीपंचदशी घाततिथिः । नृयुमिथुन, कर्कटकः प्रसिद्धः, अनयोभद्रातिथिः; द्वितीया सप्तमी द्वादशी च घाततिथिः। कौर्यो वृश्चिकः, अजो मेषः एतयोर्नदातिथिः; प्रतिपत्षध्येकादशी च घाततिथिः । नघटे मकरतुलयो रिका चतुर्थी नवमी चतुर्दशी च धनुःकुंभसिंहानां जया तृतीयाष्टमीत्रयोदशी च घाततिथिः; एते घाततिथयो यात्रायां युद्धादौ च न शस्ता इति; तदुक्तं भूपालवल्लभे.........॥२८॥
अथ घातवारान् शालिन्याहनके भौमो गोहरिस्त्रीषु मंदश्चंद्रो द्वंद्वेऽर्कोऽजभे ज्ञश्च कर्के । शुक्रः कोदंडालिमीनेषु कुंभजूके जीवो घातवारा न शस्ताः॥२९॥
नके इति ॥ मकरराशिमति पुरुष भौमो घातवारः, वृषसिंहकन्यासु मंदवारः, द्वंद्वे मिथुने चंद्रवारः, अजे मेषेऽर्कवारः, कर्के बुधवारः, धनुर्वृश्चिकमीनेषु शुक्रवारः, जूकस्तुला, कुंभतुलयोर्जीवो गुरुर्घातवारः । एते घातवाराः यात्रायां न शस्ता इति । उक्तं च.........। एतदपि निर्मूलम् ॥ २९ ॥ अथ घातनक्षत्राण्यनुष्टुभाहमघाकरखातिमैत्रमूलश्रुत्यंबुपांत्यभम् । याम्यब्राह्मेशसापं च मेषादेर्यातभं न सत् ॥ ३०॥ मघाकरेति ॥ मेषादिराशीनां क्रमेण घातकभमिदं स्यात् । यथा-मेषस्य मघा, वृषस्य हस्तः, मिथुनस्य स्वाती, कर्कस्यानुराधा, सिंहस्य मूलं, कन्यायाः श्रवणः, तुलायाः शतभं, वृश्चिकस्य रेवती, धनुषो भरणी, मकरस्य रोहिणी, कुंभस्यार्दा, मीनस्याश्लेषा; एतद्धातनक्षत्रमित्यर्थः । तद्यात्रायां सत् शोभनं न । किंतु दोषदमित्यर्थः । उक्तं च-'मघार्कस्वातिमैत्राणि मूलं श्रवणवारुणे । रेवतीयाम्यधात्रीशसार्प मेषादिमृत्यवे ॥' इति ॥ क्वचित् 'धात्रग्निसार्पम्' इति पाठः, तत्राग्निः कृत्तिकानक्षत्रं कुंभस्य घातभं तदा याम्यब्राह्माग्निसा५ चेति कल्प्यमिति । तदेते दोषा दाक्षिणात्यप्रसिद्धा निर्मूलाः ॥ ३० ॥
अथ योगिनीदोषमाहनवभूम्यः शिववह्नयोऽक्षविश्वेऽर्ककृताः शक्ररसास्तुरंगतिथ्यः। द्विदिशोऽमावसवश्व पूर्वतः स्युस्तिथयः संमुखवामगा न शस्ताः३१
नवभूम्य इति ॥ एतास्तिथयः पूर्वतः पूर्वी दिशमारभ्य, ल्यब्लोपे पंचमी । पूर्वादितोऽष्टदिक्षु ज्ञेयाः । यथा-पूर्वस्यां नवभूम्यः नवमीप्रतिपञ्च, आग्नेय्यां शिववह्नयः एकादशी तृतीया च, दक्षिणस्यामक्षविश्वे पंचमी त्रयोदशी च, नैर्ऋत्यामर्ककृता द्वादशी चतुर्थी च, पश्चिमायां शक्ररसाः चतुर्दशी षष्ठी च, वायव्यां तुरंगतिथ्यः सप्तमी पूर्णिमा च, उत्तरस्यां द्विदिशो द्वितीया