________________
घातचन्द्र-घाततिथिः] यात्राप्रकरणम् ११।
३४७ भाद्णयेच्चांद्रं तिथिवारं च मिश्रितम् । अर्कसंख्यैहरेद्भाग नवशेषं तु गौरवम् ॥ प्रवेशे गौरवं दद्यान्निर्गमे हिंवरं तथा । तस्करे टेलकं दद्याद्भबाडं सर्वकर्मसु ।' इति ज्योतिर्निबंधे] ॥ २६ ॥ ___ अथ घातचंद्राख्यं दोषं शालिन्याहभूपंचांकव्यंगदिग्वह्निसप्तवेदाष्टेशाकश्चि घाताख्यचंद्रः।। मेषादीनां राजसेवाविवादे यात्रायुद्धाद्ये च नान्यत्र वयः ॥२७॥
भूपंचेति ॥मेषादीनां राशीनां भूपंचेत्यादिको घाताख्यचंद्रो ज्ञेयः। यथामेषस्य प्रथमो मेष एव । वृषस्य पंचमः कन्यास्थः, मिथुनस्य नवमः कुंभस्था, कर्कस्य द्वितीयः सिंहस्थः, सिंहस्य षष्ठो मकरस्थः, कन्यायाः दशमो मिथुनस्थः, तुलायास्तृतीयो धनुस्थः, वृश्चिकस्य सप्तमो वृषस्थः, धनुषश्चतुर्थो मीनस्था, मकरस्याष्टमः सिंहस्थः, कुंभस्यैकादशो धनुस्थः, मीनस्य द्वादशः कुंभस्थः; एते घातचंद्रा ज्ञेया इत्यर्थः । स घातचंद्रो राजसेवायां विवादे प्रतिवादिना सह झकटके (कलहे) विद्यासंबंधिनि वा विवादे यात्रायां प्रयाणे युद्धे मादिशब्दान्मृगयादिषु वयंः। अन्यत्र विवाहान्नप्राशनादिमंगलकृत्ये न वय॑ः। उक्तं च'अजाजन्मधीधर्मवित्तारिखत्रिस्मरांब्वष्टलाभांत्यगो घातचंद्रः । नृपद्वारयात्रावरोधागमादी विचिंत्यो विवाहादिके नैव चिंत्यः ॥' इति । अन्यत्रापि-'भूपंचनंदा यमषददिशश्च वह्वयद्विवेदा वसुरुद्रसूर्याः । मेषादिकानां क्रमशो भवंति यात्रासु युद्धेषु च घातचंद्राः ॥ युद्धे चैव विवादे च कुमारीपूजने तथा। राजसेवावाहनादौ घातचंद्रं विवर्जयेत् ॥ तीर्थयात्राविवाहान्नप्राशनोपनयादिषु । सर्वमांगल्यकार्येषु घातचंद्रं न चिंतयेत् ॥' इति । अत्र मदीयं घातचंद्रपद्यमिदम्-'मेषकन्याघटहरिनक्रयुग्मधनुर्वृषाः । मीनसिंहधनुःकुंभा घातचंद्रा अजादितः ॥' इति । अत्र गणनाभावादर्थलाघवम् । मूलपद्ये तु अमुकस्मादमुकसंख्याक इति गणनायाः कदाचिद्रमसद्भावाच गौरवमिति । एतदपि निर्मूलम् ॥ २७ ॥
'आग्नेयत्वाष्ट्रजलपपित्र्यवासवरौद्रभे । मूलबालाजपादः पित्र्यमूलाजभे क्रमात् ॥१॥ रूपयम्यग्निभूरामद्यध्यग्यब्धियुगामयः।
घातचन्द्रे धिष्ण्यपादा मेषाद्वया॑ मनीषिभिः ॥२॥ अथ घाततिथीरुपजातिकयाहगोत्रीझषे घाततिथिस्तु पूर्णा भद्रा नृयुक्कर्कटकेऽथ नंदा । कौव्जयोनक्रघटे च रिक्ता जया धनुःकुंभहरौ न शस्ताः॥२८॥ ... १ इदं पद्यद्वयमपि टिप्पण्यादिरूपेणावस्थितं ग्रंथमध्ये एव केनापि निक्षिप्तमिति प्रतीयते ।