________________
मुहूर्तचिंतामणिः। [दाक्षिणात्यप्रसिद्धा दोषाः इति । द्विगुणपावकाः षट् । ननु ग्रंथका स्थानत्रये शून्ययुजि फलाभिधानं कस्मानाकारीति चेत् । सत्यम् । असंभवादेव नोक्तमिति वयं ब्रूमः। अनेकधा हि तिथिवारनक्षत्रयुतौ कल्पितायां यथाकथंचित्स्थानद्वये शून्ययोगो भवति, न कदाचित्स्थानत्रय इति । चंडेश्वरस्य क आशय इति चेत् । सत्यम् । यद्यपि सर्वशब्दो वस्तुगतं बहुत्वं प्राह तथाप्यत्रासंभवादेकत्वव्यतिरिक्तसंख्यापरस्तथा सति स्थानद्वये शून्ययुजि मृत्युरित्यर्थः । अत्र सर्वांकध्रुवांके यात्राकर्तुनक्षत्रं योज्यमित्याहुः; तद्वाक्यं च...... ॥ २४ ॥ । अथ दाक्षिणात्यप्रसिद्धान् कियतो दोषान् वक्तुकामस्तावदाडलभ्रमणाख्यौ दोषो प्रमाणिकाछंदसाह
___ रखे तोऽब्जभोन्मितिनगावशेषिता यगा । - महाडलो न शस्यते त्रिषण्मिता भ्रमो भवेत् ॥ २५ ॥
रवेरिति॥ सूर्यनक्षत्रादब्जभस्य चंद्रनक्षत्रस्योन्मितिर्गणना कार्या, सा नगैः सप्तभिरवशेषिता सती ब्यगा द्विशेषमिता सप्तशेषमिता वा भवेत्तदा महाडलो दोषः स्यात् , स न शस्यते प्रशस्तो न भवेत् । प्रागुक्तप्रकारेण यदि त्रिषण्मिता विशेषमिता षद शेषमिता वा स्यात्तदा भ्रमणाख्यो दोषः स्यात् , सोऽपि न शस्यते; एतन्निर्मूलम् । ऋषिवाक्याभावात् । तथापि पौरुषवाक्यमेवत्-'सूर्यभाद्णयेच्चांद्रं सप्तभिर्भागमाहरेत् । एकं च पंच चत्वारि आडलो नास्ति निश्चयात् । त्रिषट्के भ्रमणं शेषे द्वौ सप्त स्थान्महाडलः॥' इति । तत्र भ्रमणाख्यं दोषं तु यात्रायामेव त्यजति । आडले बहूनि शुभकर्माणि त्यजति । आहुश्व'यात्रायंत्रहलप्रवाहसमरे चौर्ये च संधौ तथा कूपारामतडागबंधनविधौ पापर्द्धदुर्गग्रहे । अश्वेभोष्ट्ररथादिरोहणकृतौ त्याज्यं सदैवाडलं यत्नादन शुभेषु मंगलविधौ दोषो न तस्य क्वचित् ॥' इति ॥ २५ ॥ ___ अथ हिंवराख्यं योगमुपजातिकयाहशशांकभं सूर्यभतोत्र गण्यं पक्षादितिथ्या दिनवासरेण । युतं नवाप्तं नगशेषकं चेत्स्यादिवरं तद्गमनेऽतिशस्तम् ॥ २६ ॥
शशांकभमिति ॥ सूर्यनक्षत्राचंद्रनक्षत्रं गण्यं पक्षादितिथ्या पक्षस्य शुकृस्य कृष्णस्य वादिः प्रतिपत्तस्याः सकाशाद्वर्तमानया तिथ्या युतं दिनवासरेण रविवारादिना च युतं । तत्र नवभि९राप्तं भक्तं नग७शेषकं सप्तशेषं चेत्तदा हिंवराख्यं तद्धिंवरं गमनेऽतिशस्तं स्यात् । उक्तं च-'सूर्यभाद्णयेच्चांद्र पक्षादितिथिवारयुक् । नवभक्तं सप्तशेष हिंवरं तस्य कीर्तितम् ॥' इति । तदेतन्निमूलम् । [प्रेसंगात् घबाडमपि-'सूर्यभाद्णयेच्चांद्र त्रिगुणं तिथिसंयुतम् । सप्तभिस्तु हरेद्भागं विशेष स्याडबाडकम् ॥' एतच्च हैंवराच्छुभं ज्ञेयम् । एतत्सर्व दाक्षिणात्या विचारयंतीति । अत्र प्रसंगाद्रंथांतरस्थसंग्रहः-'सूर्यभाद्णयेचांद्रं तिथिवारं च मिश्रितम् ॥ सप्तभिस्तु हरेद्भागं पंचशेषं तु टेलकम् ॥ सूर्य
१ [ ] चिह्नितो हि ग्रंथो न तु मूलानुसारी न च लिखितपुस्तकेषूपलभ्यते । कचिल्लिखिते टिप्पणरूपेणावस्थितोऽयं टीकाग्रंथ एवेति संभाव्य केनाप्यत्रोपन्यस्त इति भाति।