________________
सर्वाकज्ञानम्] यात्राप्रकरणम् ११॥
३४५ रिंशदधिकशतं कोष्टका जायते, मासकोष्टकसहिताः षट्पंचाशदधिकशतं कोष्टकाः स्युरित्यर्थः । एवं चक्राकृतिर्भवति । तत्र पक्षस्य शुक्लस्य कृष्णस्य वा मूलं प्रारंभः प्रतिपदिति यावत् । 'पक्षात्तिः' इति मूलेऽर्थे तिप्रत्ययः। प्रथम पौषे पौषमासे पक्षतिः प्रतिपत् तदादिकाः द्वादश तिथयोऽधोऽधो लेख्याः । माघादौ माधादिमासेषु द्वितीयादिकास्तिथयो लेख्याः। यथा-माघे द्वितीया. दिकाः, फाल्गुने तृतीयादिकाः, चैत्रे चतुर्थ्यादिकाः, वैशाखे पंचम्यादिकाः, ज्येष्ठे षष्ट्यादिकाः, आषाढे सप्तम्यादिकाः, श्रावणेऽष्टम्यादिकाः, भाद्रपदे नवम्यादिकाः, आश्विने दशम्यादिकाः, कार्तिके एकादश्यादिकाः, मार्गशीर्षे द्वादश्यादिका लेख्याः। सर्वास्तिथयो द्वादश्यता लेख्याः । कामात्तिस्रः स्युरिति विशेषोक्तेस्त्रयोदश्याद्यग्रहणादवशिष्टस्थानानि प्रतिपदादिभिः पूरणीयानि । तत्र त्रयोदशीचतुर्दशीपंचदश्यस्तिथयोऽवशिष्यते, तासां विभागमाहकामादिति । कामात्रयोदशीतस्तिस्रस्त्रयोदशीचतुर्दशीपंचदश्यस्तृतीयादितिथिवत्स्युः । यथा-त्रयोदशी तृतीयावत् , चतुर्दशी चतुर्थीवत् , पंचदशी पंचमीवत्स्युरित्यर्थः । फलार्थमतिदेशोऽयम् । तिथिचक्रन्यासो यथा-तत्र प्राच्यादौ प्राचीदक्षिणाप्रतीच्युदीचीषु चतसृषु दिक्षु याने गमने चिकीर्षिते सति फलं शुभाशुभरूपं 'सौख्यं क्लेशः' इत्यादिना वृत्तत्रयेण वक्ष्ये कथयिष्यामि । तत्र 'सौख्यं क्लेशः' इत्यादिवृत्तत्रयं स्पष्टार्थमेव । तत्र पौषमासे प्रतिपदि दिक्चतुष्टये सौख्यं क्लेशो भीतिरागमश्चेति फलचतुष्टयं क्रमेण ज्ञेयम् । एवं द्वितीयादिष्वपि क्रमेण दिक्चतुष्टये श्लोकतुर्यांशोक्तं फलं स्यात् । तदेतत्सर्व माघादिमासेषु द्वितीयादितिथिषु ध्येयमित्यर्थः ॥ २०-२३ ॥ अथ सर्वांकज्ञानं वसंततिलकयाहतिथ्यक्षवारयुतिरद्रिगजाग्नितष्टा
स्थानत्रयेत्र वियति प्रथमेऽतिदुःखी । मध्ये धनक्षतिरथो चरमे मृतिः स्या
स्थानत्रयेंकयुजि सौख्यजयौ निरुक्तौ ॥ २४ ॥ तिथ्यक्षवार इति ॥ तिथयोऽत्र शुक्लपक्षादितो ग्राह्याः । तत्र तिथिनक्षत्रवाराणां युतिः स्थानत्रये स्थाप्या, क्रमेण सप्तभिरष्टभिस्त्रिभिश्च तष्टा भक्तावशिष्टा सति प्रथम स्थाने वियति शून्ये सति अतिदुःखी यात्राकर्ता स्यात् । मध्ये द्वितीयस्थाने वियति सति धनक्षतिद्रव्यनाशः । अथो चरमे तृतीयस्थाने वियति सति मृत्युमरणं स्यात् । स्थानत्रयेऽकयुज्यंकयुते सौख्यजयौ भवेताम् । उक्तं च दैवज्ञमनोहरे चंडेश्वरेण-'तिथिवारं च नक्षत्रं संयुक्तं स्थापयेत्रिधा। द्वाभ्यां रामैस्तथा वेदैर्गुणयित्वाथ तदुधैः ॥ भाजितं चाष्टमुनिभिस्तथा द्विगुणपावकैः । आदिशून्ये भवेत्पीडा मध्यशून्ये महद्भयम् ॥ अंत्यशून्ये भवेद्धानिः सर्वशून्ये न जीवति । सर्वांके विजयो राज्ञो धनलाभो रिपोर्वधः ॥'
१ अत्र प्रमाणवाक्ये तिथ्यादियुतेर्गुणकांका निर्दिष्टास्ते ग्रंथकर्ता कण्ठतो नोक्तास्तत्र हेतुश्चिंत्यः । टीकाकृतां स्तब्धत्वे हेतुस्तु प्रमाणवाक्यमेव स्यादिति विभाव्यते।