________________
*
मुहूर्तचिंतामणिः । [ प्रयाणे त्रिनवमीदोषः
स्यातामेकस्मिन्नपि वासरे । तदा प्रावेशिकं चित्यं बुधैर्नैव तु यात्रिकम् ॥' इति । प्रावेशिकं वासरं यात्रिकं च वासरम्, 'वा पुंसि क्लीने दिवसवासरौ' इति वासरशब्दस्य पुंनपुंसकत्वात्सामानाधिकरण्येन संबंधः । अत्राहुः एतत्पचोपनिबंधन प्राक्पद्योपनिबंधस्याजागलस्तनायमानत्वमस्त्येक कर्तृकत्वात् । भिन्नकर्तृके तु नायं दोषः, यथा संमतिवाक्ययोः । अत्र समाधिः- एकस्मि नेव दिने यात्राप्रवेशकालयोः कियद्वटिकाकृतो विलंबस्तिष्ठते । परंतु यात्रासमये भद्राव्यतीपातादिकं महादोषजातं विचार्य वा न वेति संदेहः । यदि विचार्य तदा विशिष्य प्रोक्तं प्रतिशुक्राद्यपि विचार्यम् । यदि न विचार्य तदेदमपि न विचार्यम् । एवं सति भृगुवाक्यमनर्थकं स्यात् । ननु सामान्यविशेषवाक्यभावेन प्रतिशुक्रादिकं बाधकं भविष्यतीति चेन्न । एतत्प्रकरणपठितानां शुभाशुभप्रकरणस्थदोषाणां च नास्ति सामान्यविशेषभावः । अयं विचारो 'योगात्सिद्धिर्धरणिपतीनाम् ' (११।५४ ) इति पद्यव्याख्यानेऽभिहितः । तस्मात्प्रकरणद्वयपठिते दोषविचारे प्रसक्ते विना वचनं दोषत्यागोपादानविचारो न निर्णय पदवीमवगाहत इति प्राक्पद्योपनिबंधः सार्थक इति ॥ ७८ ॥ अथ प्रयाणे त्रिनवमीदोष मनुष्टुभाह
प्रवेशान्निर्गमं तस्मात्प्रवेशं नवमे तिथौ ।
नक्षत्रेsपि तथा वारे नैव कुर्यात्कदाचन ॥ ७९ ॥ प्रवेशादिति ॥ त्रिविधा नवमी - प्रयाणनवमी प्रवेशनवमी तिथिश्च नवमी । तत्र गृहप्रवेशतिथितो नवमे तिथौ निर्गमं न कुर्यात् । इयं च प्रयाणनवमी। पुनश्च गमनदिवसान्नवमे तिथौ गृहप्रवेशं न कुर्यात् । इयं च प्रवेशनवमी । नवमी तिथिस्तु प्रसिद्धैव । यदाह वसिष्ठः - ' नवमी ज्ञेया त्रिविधा प्रवेशनवमी प्रयाणनवमदिनम् । निर्गमनतः प्रवेशात्प्रयाणनवमी नवमंदिनं च ॥ सततं नवमीत्रितयं यात्रायां प्राणहानिदं यातुः ।' इति । अत्र पद्ये तु नवमीदोषः प्रागुक्तत्वान्नोपनिबद्धः । ननु प्रयाणनवम्यां तिथौ च नवम्यां यात्रा निषिद्धेति युक्तं, प्रवेशनवम्यां तु बहिःस्थस्य पुंसो गृहप्रवेश निषेधस्यैव युक्तत्वात्कथं पुनस्तस्य गृहाद्गमनसंभवो युक्तः ? भतो दोषाभिधानमपि न युक्तम् । उच्यते,— यथा गृहान्निर्गतः पुमान् दैवाच्छीघ्रमेव कृतकार्यः सन् सप्तमेऽष्टमे
तिथौ गृहं प्रविष्टः स चेत्पुनः कार्यनिपातप्रवेशतिथेः सकाशात्तृतीया द्वितीया वा तिथिः प्राङ्गनिर्गमतिथितो नवमीतिथिस्तस्यां तिथौ यात्रां नैव विदध्यादित्यर्थः । नक्षत्रेऽपीति । तथा तेनैव तिथिः प्राङ्गनिर्गमतिथितो नवमीतिथिस्तत्तुल्येन प्रकारेण नक्षत्रे वारे वा कदाचन नैव कुर्यात् । अयमर्थः — यस्मिन्नक्षत्रे गृहप्रवेशः कृतस्ततो नवमे नक्षत्रे प्रयाणं न कार्यं । यथा मृगे प्रवेशो हस्ते गमनं । निर्गमनक्षत्रान्नवमे नक्षत्रे प्रवेशो न कार्यः । यथा हस्ते गमनमुत्तराषाढायां प्रवेशः । अत्रापि प्रागभिहितरीत्या यात्रापि निषिद्धा । एवं वारेऽपि ध्येयम् । यथा बुधवारे प्रवेशस्ततो नवमे दिवसे गुर्वाख्ये प्रयाणं न कार्यम् । गुरुदिवसाच्च नवमे शुक्राख्ये दिवसे प्रवे