SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ नक्षत्राणां दोहदाः ] यात्राप्रकरणम् ११ ३८९ शोऽपि न कार्य इत्यर्थः । यदाह गर्गः - 'प्रवेशान्निर्गमश्चैव निर्गमाच्च: प्रवेशनम् । नवमे जातु नो कुर्याद्दिने वारे तिथावपि' इति ॥ ७९ ॥ अथ यात्रादिनीयं विधिं शालिनीछंदसाह - अनं हुत्वा देवतां पूजयित्वा त्वा विप्रानर्चयित्वा दिगीशम् । दत्त्वा दानं ब्राह्मणेभ्यो दिगीशं ध्यात्वा चित्ते भूमिपालोऽभिगच्छेत् ॥ ८० ॥ अग्निमिति ॥ स्पष्टार्थम् । यदाह नारदः - 'हुताशनं तिलैर्हुत्वा पूजयेत्तु दिगीश्वरम् । तथा प्रणम्य भूदेवानाशीर्वादैर्नृपो व्रजेत् ॥' इति । वसिष्ठोऽपि - 'दिगीश्वराकृतिं कृत्वा सुवर्णेन स्वमंत्रकैः । स्वस्ववर्णैः सुगंधाद्यैर्धूपैर्दीपैर्मनोरमैः ॥ तद्वर्णवस्त्रनैवेद्यैर्भक्त्या सम्यक्प्रपूजयेत् । दिमीशं च सुसंपूज्य तिलहोमं च कारयेत् ॥ दैवज्ञाय ततो दद्यात्प्रतिमां भूषणान्विताम् । देवान्गुरुन्पितृन्विप्रान्स्वस्तिवाचनपूर्वकम् । नत्वा तुष्टः प्रीतमना व्रजेन्मंगलनि:स्वनैः ॥' इति । अत्र यात्रादिनात्प्राक्सप्तदिनमध्ये गुह्यकपूजनमुक्तम् । त्र्यहं पूर्वं विजयस्नानमुक्तं सप्तमदिने ग्रहमखश्च । तदेतद्वराहेण बृहद्यात्रायां महता ग्रंथसंदर्भेणाभिहितं तत्तत एवावधार्यम् । वसिष्ठादिभिस्तु दिगीश्वरध्यानान्यपि उक्तानि । तान्यपि तत्तत्पूजायां पाठात्तत्रैव द्रष्टव्यानीति नास्माभिर्लिख्यते । गमनसमये ध्यानम् 'इंद्राय नमः अग्नये नमः' इत्यादिनापि संभवति ॥८०॥ अथ नक्षत्राणां दोहदाशार्दूलविक्रीडिताभ्यामाहकुल्माषांस्तिलतंडुलानपि तथा माषांश्च गव्यं दधि त्वाज्यं दुग्धमथैणमांसमपरं तस्यैव रक्तं तथा । तद्वत्पायसमेव चापपललं मार्गं च शाशं तथा पाष्टिक्यं च प्रियंग्वपूपमथवा चित्रांडजान्सत्फलम् ८१ कौ सारिकगौधिकं च पललं शाल्यं हविष्यं हयाक्षे स्यात्कृसरान्नमुद्रमपि वा पिष्टं यवानां तथा । मत्स्यानं खलु चित्रितान्नमथवा दध्यन्नमेवं क्रमा द्भक्ष्याभक्ष्यमिदं विचार्य मतिमान्भक्षेत्तथाऽऽलोकयेत् ॥ कुल्माषानिति ॥ कौर्ममिति ॥ अत्र प्रथमपद्ये चतुर्थचरणे 'प्रियंग्वधूप' इत्यत्र छंदोभंगोऽस्ति सगणप्रक्षेपाकरणात् । सत्यम् । 'प्रहेवा' इति पिंगलसूत्रकारेण रेफसंयोगे च प्राग्वर्णस्य लघुत्वाभिधानात् । तथा च कालिदासः १ ' प्रणम्य देवभूदेवान्' इति जीर्णपुस्तके पाठः ।
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy