________________
मुहूर्तचिंतामणिः ।
[ नक्षत्राणां दोहदाः
'गृहीतप्रत्युद्गमनीयबस्त्रा' (कुमार० ७ । ११) इति, तद्वदत्रापि छंदोभंगाभावः। सूत्रेsकारोच्चारणं मुखसुखार्थम्, तेन प्रीत्यादावपि लघुत्वम् । अन्ये तु संयोगमात्रे परभूते लघुत्वमतीव्रप्रयत्नतयेत्याहुः । उक्तं च सरस्वतीकंठाभरणे - 'यदा तीव्रप्रयलेन संयोगादेरगौरवम् । न च्छंदोभंगमप्याहुस्तदा दोषाय सूरयः ॥' इति । एतच्च श्रुत्वा गदितो भवांस्त्वं सीतोपलंभे च कुरु प्रबुद्धिम्' इति च । ततो तीव्रप्रयत्नेनात्र प्रीत्यस्योच्चारणे प्राग्वर्णस्य लघुतैव तेन सगणप्रक्षेप एव । तथासति छंदोभंगाभाव इत्यलमतिप्रसंगेन । हयावृक्षे अश्विन्यादिसप्तविंशतिभेषु नक्षत्र दोहदं 'कुल्माषान्' इत्यादिकमिदं भक्ष्याभक्ष्यं वर्णभेदेन देशभेदेन वा इदं भक्ष्यमेतदभक्ष्यमिति विचार्य भक्ष्यसंभवे भक्षेत्, अभक्ष्यसंभवे भालोकयेत्पश्येत् स्पृशेद्वेत्यपि ध्येयम् । यथा - अश्विन्यां कुल्माषानक्षतस्विन्नमाषान्, भरण्या तिलमिश्रतंडुलान्, कृत्तिकायां माषान्, रोहिण्यां गव्यं गोसंबंधि दधि, मृगे गव्यमाज्यं घृतं, आर्द्रायां दुग्धं गव्यमेव, पुनर्वसावेणमांसं हरिणमांसं, पुष्ये तस्येव मृगस्य रक्तं रुधिरं, आश्लेषायां पायसं दुग्धमध्ये वह्निसंपर्केण पाचित - तंडुलान्, मघायां चाषस्य पक्षिणः पललं मांस, पूर्वाफल्गुन्यां मृगस्येदं मार्ग मांसं, उत्तराफल्गुन्यां शशस्येदं शाशं मांस, हस्ते षाष्टिक्यं षष्टिकान्नं 'साठी ' इति भाषायां, चित्रायां प्रियंगुः फलिनी, स्वात्यामपूपं घृतपक्को भक्ष्यविशेषः, विशाखायां चित्रांडजान्नानावर्णान्पक्षिणः, अनुराधायां सत्फलमुत्तमफलमावादि, ज्येष्ठायां कूर्मस्य कच्छपस्येदं कौर्म मांस, मूले सारिकायाः पक्षिण्या इदं -सारिकं मांस, पूर्वाषाढायां गोधाया इदं गौधिकं मांस, उत्तराषाढायां शाल्यं शल्यस्य पक्षिण इदं शाल्यं पललं मांसम् 'श्वावित्तु शल्यः' इत्यमरः । 'सारसलम्' इति भाषया । अभिजिति हविष्यं मुद्गादि, श्रवणे कृसरान्नं 'खिचडी', धनिष्ठायां मुगानं मुद्गौदनं, शतभे यवानां पिष्टं, पूर्वाभाद्रपदायां मत्स्यमिश्रितमनमोदनं, उत्तराभाद्रपदायां चित्रितान्नं नानाविधैरन्नैर्गोधूमादिभिः पक्कैर्मिश्रमन्नमोदनमिति केचित् । वयं त्वेवं व्याकुर्मः - यवतंदुलतिला मेषीदुग्धेन पक्त्वा मेषकर्णोपरक्तेनारक्ताश्चित्रान्नमोदनमिति चित्रितशब्देनोच्यते इति । रेवत्यां दध्यन्नं दध्योदनमिति । अपि च तथेत्यादीन्यव्ययानि पादपूर णार्थाणि । यदाह नारदः - 'कुल्माषांश्च तिलान्माषान्दधि गव्यं घृतं पयः । मृगं मांसं च तत्सारं पायसं चाषकं मृगम् ॥ शशमांसं च षाष्टिक्यं प्रियंगुकमपूपकम् । चित्रांडजान्फलं कूर्म शाटीं गोधां च शल्यकम् ॥ हविष्यं कृस - रानं च मुद्गान्नं यवपिष्टकम् | मत्स्यानं चित्रितान्नं च दध्यन्नं दाखभावकमात् ।' इति । तत्सारं = मृगरुधिरम् । अत्र चित्रांडजाफलमित्येकमेव दोहदमाहुः । तन्न । 'चित्रांडं च फलं ततः' इति कश्यपेन पृथगुक्तेः । अंडा
३९०
ין
१ दृश्यते चोदाहृतोऽयं पाठो ह्युदाहरणत्वेन छंदोमञ्जरी - वृत्तरलाकरादिग्रन्थटीकाकारैः, परं कुमारसंभवे तु 'गृहीतपत्युद्गमनीयवस्त्रा' इति पाठमादृत्य 'पत्युर्वरस्योद्गमनीयवस्त्रा' इति मल्लिनाथो व्याख्यातवान् । क्षीरस्वाम्यपि 'गृहीतपत्युद्गमनीय' इत्युदाजहारोगमनीयशब्दविवरणे । रहस्यं त्वत्राभियुक्तैरेव विनिगमनीयम् ।
'