SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ दिशां दोहदाः] यात्राप्रकरणम् ११। अंडजा उच्यते, अंडगतवैचित्र्याभावात् । यत्त श्रीपतिवाक्ये-'चित्रांडजायाः फलम्' इत्युक्तं तस्यार्थं न विद्मः । 'प्राश्याः प्रियंगुचित्रांडजाः फलं यावकं कुलित्थाश्च' इति वराहपद्यव्याख्याने चित्रानाकाराः पक्षिणश्चित्रायां प्राश्याः, फलानि प्रसिद्धानि स्वाताविति भट्टोत्पलो व्याख्यत् । चित्रानलक्षण. मुक्तं दीपिकायाम्-'अजाक्षीरेण संस्खिन्ना यवाः सतिलतंदुलाः । अजकर्णस्य रक्तेन रक्ताश्चित्रानसंज्ञकाः ॥' इति । अत्र यदभक्ष्यं दुष्प्रापं वा तत्स्मृत्वा दृष्ट्वा दत्त्वा वागंतव्यमित्याह गुरु:-'अलभ्यलभ्याऽभक्ष्यान्वा स्मृत्वा स्पृष्ट्वाथ तान्ब्रजेत् । दत्त्वा वा सिद्धिमामोति दुष्टभादिषु भूपतिः ॥' इति । आदिशब्दात्तिथिवारदिग्दोहदेषु स्मरणं स्पर्शनं दानं भक्षणं वा यथासंभवं ध्येयम् । नक्षत्रदोहदेषु वसिष्ठादिपधेषु क्वचिद्भेदस्तत्र विकल्पस्तुल्यबलत्वात् । भक्षेदिति 'भक्ष अदने' इति धातुश्चुरादिस्तस्मात् 'सत्यापपाश-' इति स्वार्थणिजंताद्विधिलिङि तिपि शबादौ च कृते 'इतश्च' इतीकारलोपे भक्षयेदिति भवितव्यं नतु भक्षेदिति कथमयं प्रयोगः ? उच्यते,-चुरादिभ्यस्तु णिजनित्योऽस्ति, 'अनित्यण्यंताक्षुरादयः' इत्युक्तेरेवं सति णिजभावपक्षे विधिलिङि भक्षेदिति सिद्यति । ज्ञापकं चात्र चुरादौ हि 'चिति स्मृत्याम्' इति चितिधातोरिदित्करणं तद्धि चिंतित इत्यादौ 'इदितो नुम् धातोः' इति नुमि 'अनिदितां हल उपधायाः क्विति' इति नलोपो मा भूदित्येवमर्थ कृतं नित्ये तु णिचि नलोपस्याप्रसंगादित्वं वृथैव भवति । नुमर्थमिति चेन्न । 'चिन्त स्मृत्यां' इति सनुमेव पठितव्यं किमि दित्त्वेन ? एवं सतीदित्त्वं कृतं ज्ञापकमुक्तार्थस्य संपन्नमिति । अत एव-'महीपालवचः श्रुत्वा जुघुषुः पुण्यमानवाः' इति विशब्दनार्थस्य चौरादिकस्य घुषे?षयामासुरित्यर्थे जुघुषुरित्यादिमहाकविप्रयोगोपपत्तिरिति वामनः । पक्षे चोरतीत्यादि प्रक्रियाकौमुदीकृञ्चेत्याह सेत्यलमतिप्रसंगेन । अथवा व्यक्तमेवं पठितव्यम् 'खादेत्तथालोकयेत्' इति ॥ ८१-८२ ॥ अथ दिग्दोहदमनुष्टुभाह आज्यं तिलौदनं मत्स्यं पयचापि यथाक्रमम् । भक्षयेद्दोहदं दिश्यमाशां पूर्वादिकां व्रजेत् ॥ ८३ ॥ आज्यमिति ॥ भाज्यं घृतं पूर्वस्यां, तिलौदनं तिलमिश्रौदनं दक्षिणस्यां, मत्स्यं प्रसिद्धं पश्चिमायां पयो दुग्धं उत्तरस्याम् । एतद्यथाक्रम दिश्यमभीष्टदिग्भवं दोहदं भक्षयेत्ततः पूर्वादिकामाशां जिगमिषितां दिशं ब्रजेत् । यदाह श्रीपतिः-'भाज्यतिलौदनमत्स्यपयोभिः प्राक्प्रभृति क्रमशः खलु भुक्त्वा' इति । नारदेन त्वन्यथोक्तम्-'घृतानं तिलपिष्टानं मत्स्यान्नं धृतपायसम् । प्रागादिक्रमशो भुक्त्वा याति राजा जयत्यरीन् ॥' वसिष्ठेनापि'घृतानं कृसरानं च मत्स्यानं घृतपायसम् । पूर्वादिषु क्रमाद्भुक्त्वा याता सिद्धिमवाप्नुयात् ॥' इति । अत्रैवं विरोधे विकल्पो यथादेशाचारं वा व्यवस्था ॥८३॥
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy