________________
३९२
मुहूर्तचिंतामणिः ।
[ तिथिदोहदम्
अथ वारदोहदमनुष्टुभाह
रसालां पायसं कांजी भृतं दुग्धं तथा दधि । पयोऽमृतं तिलान्नं च भक्षयेद्वारदो हदम् ॥ ८४ ॥
रसालामिति ॥ रसाला शर्करादधिमरीचकर्पूरैलासंसृष्टा, लोके 'शिखंरिणी' इति प्रसिद्धा तां रविवारे । पायसकांज्यौ प्रसिद्धे सोममंगलवारयोः । शृतं पक्कं दुग्धं बुधे । 'शृतं पाके' इति साधु । तत्रापि 'क्षीरहविषोरेव' इति वार्तिकात्प्रस्तुते क्षीरे साधुत्वं । दधि प्रसिद्धं गुरुवारे, अशृतमपक्कं दुग्धं शुक्रे, तिलान्नं तिलमिश्रमोदनं शनौ । एतद्वारदोहदं रविवारादौ क्रमेण भक्षयेत् । यदाह श्रीपतिः - 'मज्जिकां सघृतपायसं तथा कांजिकं श्रुतयो दधि क्रमात् । क्षीरपक्कमथितं तिलौदनं वारदोहदविधिर्बुधैः स्मृतः ॥' इति । वसिष्ठनारदाभ्यां दुग्धस्य पक्कविशेषो नाभ्यधायि - 'मज्जिका परमान्नं च कांजिकं च पयोदधि । क्षीरं तिलौदनं भुक्त्वा भानुवारादिषु क्रमात् ॥' . इति । मज्जिका = रसाला, 'स्याद्वसाला तु मज्जिका' इत्यभिधानात् । गुरुस्तु विशेषमाह - 'सूर्यवारे घृतं प्राश्यं चंद्रवारे पयस्तथा । गुडमंगारके वारे बुधवारे तिलानपि । गुरुवारे दधि प्राश्यं शुक्रवारे यवानपि । माषान्भुक्त्वा शनेवरे शूले गच्छन्न दोषभाक्' इति ॥ ८४ ॥ अथ तिथिदोहदं वसंततिलकाछंदसाहपक्षादितोऽर्कदलतंदुलवारि सर्पिः
श्राणा हविष्यमपि हेमजलं त्वपूपम् । भुक्त्वा व्रजेद्रुचकमंबु च धेनुमूत्रं
"
यावान्नपायसगुडानसृगन्नमुद्गान् ॥ ८५ ॥ पक्षादित इति ॥ पक्षादिः प्रतिपत्तस्याः ल्यब्लोपे पंचमी । प्रतिपदादिपंचदशतिथिषु क्रमेण तिथिदोहदं भुक्त्वा व्रजेत् । यथा - प्रतिपदि अर्धस्य वृक्षविशेषस्य दलानि पर्णानि, 'रुई' इति भाषायां । द्वितीयायां तंदुलवारि क्षालिततंदुलजलं, तृतीयायां सर्पिर्वृतं चतुर्थ्यां श्राणा यवागूः, 'अंबिलि' इति भाषायां पंचम्यां हविष्यं मुद्रादि, षष्ठ्यां हेमजलं प्रक्षालितसुवर्णजलं । सप्तस्यामपूपं, अष्टम्यां रुचकं बीजपूरफलम् ; 'फलपूरो बीजपूरो रुचको मातुलिं'ग' इत्यमरः; नवम्यामंबु जलं, दशम्यां धेनुमूत्रं स्त्रीगवीमूत्रं; नतु वृषमूत्रं धेनुशब्दग्रहणात्, एकादश्यां यावान्नं यवविकारं, द्वादश्यां पायसं त्रयोदश्यां गुडमिक्षुविकारं, चतुर्दश्यामसृक् रुधिरं । पंचदश्यामन्नमुद्गानोदन मिश्रितमुद्गान् । यदाह बृहस्पतिः - 'अर्कपत्रं भवेद्यातुः प्रथमायां तु भक्षणम् । द्वितीयायां भवेद्यातुर्भक्ष्यं सत्तंदुलोदकम् ॥ तृतीयायां यथा सर्पिर्यवागूः स्यात्ततः परं । पंचम्यां तद्धविष्यं स्यात्षष्ठ्यां वा कांचनोदकम् ॥ अपूपभुक्तिः
१ 'श्रीखंड' इति लोके