________________
गमनसमयविधिः] यात्राप्रकरणम् ११ । सप्तम्यामष्टम्यां बीजपूरकम् । नवम्यां तोयपानं स्यागोमूत्रं तु ततः परम् ॥ एकादश्यां यवानद्यावादश्यां पायसं भवेत् । त्रयोदश्यां गुडं लेां रुधिरं स्थाच्चतुर्दशे ॥ मुद्गौदनं भवेगोज्यं पंचदश्यां यियासतः। पक्षयोरुभयोरेवं यात्रायोगे विधिः स्मृतः ॥' इति । दैवज्ञमनोहरेऽपि क्वचि दो यथा-'अर्कदलतंदुलोदकसपौषि हविष्यदधिसुवर्णपयः । तिलवारिबीजपूरकमध्वाज्यकसूत्रपिष्टिकाश्चापि ॥ तिलपिष्टकंदमूलानि शाकमथ शस्तवृक्षपर्णानि । प्रतिपप्रभृतिषु भुक्त्वा प्रस्थाता सिद्धिमामोति ॥' इति । ननुच-'अलभ्यलभ्याऽभक्ष्यान्वा स्मृत्वा दृष्ट्वाथ तान्व्रजेत् । दत्त्वा वा सिद्धिमानोति दुष्टभादिषु भूपतिः॥' इति गुरूक्तेः वारादिषु दोहदाभिधानं सार्थकं, विहितेषु पुनर्नक्षत्रतिथिवारादिषु दोहदाभिधानं व्यर्थम् , दोषनिवारणफलको हि दोहदस्तदभावेन वैयर्थ्यप्रसंगात् । उच्यते-'दुष्टभादिषु भूपतिः' इत्यत्र दुष्टत्वं किं नैसर्गिकमुतान्याहितं इति विशेषानभिधानात् सत्यावश्यकगमने राज्ञां बलेनैव गमने प्राशस्त्याभिधानात् यदि विहितनक्षत्रेष्वपि क्रूरग्रहसाहित्यादिर्महान् दोषः संभावितोऽस्ति तदपाकरणाय दोहदाभिधानं युक्तम् । एवं सर्ववर्णानामपि पारिघदंडे विरुद्धताराक्रूरग्रहसाहित्यादिमहादोषनिवारणाय दोहदोक्तेः सार्थक्याच्च । एवं विहिततिथिदोहदाभिधानं योगिन्यादिदोषनाशार्थ 'सङ्करराशेरशुभा तिथिः स्यात्' इत्येतद्दोषनिवारणार्थं च तदोषाभिधानम् । रत्नमालायां च-'आद्याश्चतस्रः क्रियपूर्वकाणां मेषाच्चतुर्णामिह पंचमी स्यात् । पराः परेषां परतस्तथैव सङ्करराशेरशुभा तिथिः स्यात् ॥' इति । एवं वारदोहदोक्तिरपि वक्रिग्रहवारशूलादिदोषहान्या सार्थिका । दिग्दोहदोक्तिरपि त्रिविधप्रतिबुधप्रतिशुक्रप्रतिभौमादिदोषहान्या सार्थिका ॥ ८५॥
अथ गमनसमयभवं विधि प्रहर्षिणीछंदसाहउद्धृत्य प्रथमत एव दक्षिणांघ्रि द्वात्रिंशत्पदमभिगत्य दिश्ययानं । आरोहेत्तिलघृतहेमताम्रपात्रं दत्त्वादौ गणकवराय च प्रगच्छेत् ॥
उद्धृत्येति ॥ राजा गमनसमय एव प्रथमतो दक्षिणांघ्रिं दक्षिणचरणमुद्धृत्य पश्चावात्रिंशत्पदं द्वात्रिंशत्पदपरिमितां भूमिं गत्वा दिश्ययानं वक्ष्यमाणं दिग्विशेषे हस्त्यादियानमारोहेदिति । यदाह गुरुः- पूर्व दक्षिणमुद्धृत्य पादं यायानराधिपः । द्वात्रिंशतं पदं गत्वा यानमारुह्य संव्रजेत् ॥' वराहोऽपि-'कल्याणनामसचिवाप्तजनायुधीयदैवज्ञविप्रजनकंचुकिमध्यसंस्थः । द्वात्रिंशतं समुपगम्य पदानि भूमौ प्रागादि नागरथवाजिनरैस्तु यायात् ॥' इति । तिलेति । आरोहणसमये तिलघृतहेमसहितं ताम्रपात्रमादौ गणकवराय ज्योतिर्विच्छ्रेष्ठाय चकारादन्येभ्योऽपि ब्राह्मणेभ्यो यथाशक्ति दानं दत्वा प्रगच्छेत् । यदाह गुरुः-'ताम्रपाने तिलान्कृत्वा सघृतान्हेमसंयुतान् । निवेद्य विप्रमुख्याय दैवज्ञाय विशेषतः ॥' इति ॥ ८६ ॥