________________
मुहूर्त चिंतामणिः । [प्रस्थानवस्तुनि मथावसरप्राप्तानि दिश्ययानान्यनुष्टुभाह
प्राच्यां गच्छेद्गजेनैव दक्षिणस्यां रथेन हि ।
दिशि प्रतीच्यामश्वेन तथोदीच्यां नरैर्नृपः ॥ ८७॥ प्राच्यामिति ॥ स्पष्टार्थ पद्यम् । नरैर्नरबादैः सुखासनादिभिः । यदाह श्रीपतिः-'हस्तिरथाश्वनरैर्यदि राजा याति तदाऽऽशु जयत्यरिचक्रम्' इति । वराहोऽपि-'प्रागादि नागरथवाजिनरैस्तु यायात्' इति ॥ ८७ ॥ अथ निर्गमनस्थानानि पादाकुलकछंदसाहदेवगृहाद्वा गुरुसदनाद्वा खगृहान्मुख्यकलत्रगृहाद्वा। प्राश्य हविष्यं विप्रानुमतः पश्यन्शृण्वन्मंगलमेयात् ॥८८॥ देवेति ॥ देवा विष्ण्वादयः पूज्यंते यस्मिन् गृहे तद्देवगृहं, गुरुरध्यापकः स्वस्य कुलगुरुर्वा, स्वगृहं खशय्यागृहं, बहुस्त्रीत्वसंभवे मुख्यकलत्रं पट्टराज्ञी तद् एषां मध्ये मनोभीष्टात्सकाशागृहात् भोजनसंभवे हविष्यमनं प्राश्य मक्षयित्वा विप्रैर्ब्राह्मणैरनुमतः कृतोत्साहः मंगलं मंगलद्व्यं मनोभीष्टं पश्यन् सन् तथा शृण्वन् सन् एयात् गच्छेत् । यदाह लल्ल:-'स्वनिकेताद्देवगृहाप्रधानदाराश्रयाद्गुरुगृहाद्वा। यायात्कृताग्निकार्यःप्राश्य हविष्यं द्विजानुमतः॥ द्विजो विष्णुक्रमाद्भूपं मंत्रेणानेन चालयेत् । “इदं विष्णुर्विचक्रम" इत्येवं पादमुद्धरेत् । मंगलानि ततः पश्यन् स्पृशन्छृण्वन्नृपो व्रजेत् ॥' इति । वराहोऽपि'अंतःपुराद्वा स्वनिवेशनाद्वा सिंहासनादग्निपरिग्रहाद्वा । कुर्यानरेंद्रः प्रथम प्रयाणं विप्रैः शताः कृतमंगलाशीः ॥ "इदं विष्णुर्विचक्रम" इत्येवं पादमुद्धरेत् । अमुकस्य वधायेति दक्षिणं क्षितिपो न्यसेत् ॥' इति । अग्निपरिग्रहः= अग्निहोत्रगृहम् ॥ ८८॥ __ अथ गमनकाले निर्णीते सत्यपि स्वस्यावश्यकार्यानिष्पादाद्गमनविलंबे वर्णक्रमेण प्रस्थानवस्तूनि प्रहर्षिणीछंदसाहकार्याधैरिह गमनस्य चेद्विलंबो भूदेवादिभिरुपवीतमायुधं च । क्षौद्रं चामलफलमाशु चालनीयं सर्वेषां भवति यदेव हत्प्रियं वा।। __ कार्याद्यैरिति ॥ किंचिदावश्यकं कार्य नाभूदिति गमनस्य चेद्विलंबः स्यात्तदा विचारिते यात्रालग्ने भूदेवादिभिाह्मणप्रभृतिमिरेतानि वस्तूनि आशु चालनीयानि प्रस्थापनीयानि । यथा-ब्राह्मणेनोपवीतं, क्षत्रियेणायुधं, वैश्येन मधु, शूद्रेण अमलं निर्मलं फलं नारिकेलादि । यदाह वसिष्ठः-तस्मिन्मुहूर्ते स्वयमप्रयाणे प्रयोजनापेक्षितया च दैवात् । तत्रैव तन्निर्गमनं च कार्य स्त्रीयासनाच्चापि तदुच्यमानम् ॥' इति । राजमार्तड:-'प्रस्थाने ब्राह्मणादीनां यज्ञसूत्रमथायुधं । मध्वामलफलं चैव प्रशस्तं वृद्धिकारणम् ॥' इति । वा अथवा सर्वेषां वर्णानां यदेव हृत्प्रियं मनोभीष्टं तदेव प्रस्थापनीयम् ।
१ परिगृह्यते अस्मिन्निति परिग्रहः। परिग्रहणस्थानमित्यर्थः। 'ग्रहवृदृनिश्चिगमश्च" इति अधिकरणार्थे अपप्रत्ययः ।