________________
प्रस्थानपरिमाणं] यात्राप्रकरणम् ११ । उक्तं च वसिष्ठेन-'श्वेतातपत्रध्वजचामराश्वविभूषणोष्णीषगजांबराणि ॥मांदो. लिकारतरथाश्चवारान्छय्यासनाचं मनसस्त्वभीष्टम् ॥' इति । नारदोऽपि'भप्रयाणे स्वकं कार्यमपेक्षी भूपतिस्तथा । कुर्यानिर्गमनं छत्रध्वजवाहनसंयुतम् ॥' इति ॥ ८९॥
अथ स्वयं गमने कियङ्करं प्रस्थानं कार्यमित्येतदाशंक्य प्राच्यमतेन प्रस्थानपरिमाणं मंदाक्रांताछंदसाह
गेहाद्हांतरमपि गमस्तर्हि यात्रेति गर्गः
सीम्नः सीमांतरमपि भृगुर्वाणविक्षेपमात्रम् । प्रस्थानं स्यादिति कथयतेऽथो भरद्वाज एवं
यात्रा कार्या बहिरिह पुरात्स्याद्वसिष्ठो ब्रवीति ॥९॥ गेहादिति ॥ स्वगृहात्परगृहमतिसमीपवर्त्यपि तत्रापि चेद्गमो गमनं स्यात्तर्हि यात्रा जातेति गर्गः कथयते । अथवा स्वग्रामसीमामुलंध्य सीमांतर ग्रामांतरसीमां प्राप्य वसेदिति भृगुः कथयते । अथवा महता योद्धा स्वबलेन क्षिप्यमाणः शरो यावरं गच्छति तावन्मानं प्रस्थानं स्यादिति भरद्वाजः कथयते । अथवा पुरानगराबहिर्यात्रा कार्या स्यादित्येवं वसिष्ठः कथयते । यदाह राजमार्तड:-'गृहाद्गृहांतरं गर्गः सीनः सीमांतरं भृगुः । शरक्षेपारद्वाजो वसिष्ठो नगराबहिः ॥' इति । एतच्च यथायोग्य कार्यस्यावश्यकतायां च ध्येयम् ॥ ९० ॥ अथ मुनिमतेन प्रस्थानपरिमाणं वसंततिलकाछंदसाहप्रस्थानमत्र धनुषां हि शतानि पंच
केचिच्छतद्वयमुशंति दशैव चान्ये । संप्रस्थितो य इह मंदिरतः प्रयातो
गंतव्यदिक्षु तदपि प्रयतेन कार्यम् ॥ ९१ ॥ प्रस्थानमिति ॥ धनुषः परिमाणमाह भास्करः-'नवोदरैरंगुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । हस्तैश्चतुर्भिर्भवतीह दंडः क्रोशः सहस्रद्वितयेन तेषाम् ॥' इति । अत्र गमनकाले तादृशानां धनुषां पंचशतानि, हस्तसहस्रद्वयमिति यावत् । स्वगृहात्तावद्धस्तावधि प्रस्थानं स्यादिति केचिदूचुः । अन्ये तु तादृशानां धनुषां शतद्वयमष्टौ शतानि हस्तास्तावत्प्रस्थानमित्याहुः । अपरे तु इह यात्राकाले मंदिरतः स्वगृहाद्दशैव धनूंषि चत्वारिंशद्धस्तास्तावहूरे संप्रस्थितः प्रयात एव ज्ञेय इत्याहुः । यदाह वसिष्ठः-'प्रस्थान धनुषां पंचशतान्युत शतद्वयम् । स्वदेवसदनाद्वापि दशभिः प्रस्थितो गतः ॥' इति । नायं स्वेच्छाविकल्पः किंतु कार्यस्यानावश्यकावश्यकत्वात्ताशप्रस्था
१ दंडः धनुर्दड इत्यर्थः ।