________________
३९६
मुहूर्तचिंतामणिः । [प्रस्थातुर्विहितनियमाः नम् । अत एव नारदोऽपि-'स्वस्थानानिर्गमस्थानं दंडानां च शतद्वयम् । चत्वारिंशत्पंचविंशत्प्रस्थितः स स्वयं गतः॥' इति प्रस्थानविकल्पानाह । मत एव 'भप्रयाणे स्वकं कार्यमपेक्षी' इत्याह च।गंतव्यदिश्विति। तदपि प्रस्थान प्रयतेन सविधानेन राजादिना गंतव्यदिक्षु यस्यां दिशि गमनं चिकीर्षितं तदिगभिमुखं कार्यम् । यदाह राजमार्तड:--'गंतव्यदेशाभिमुखे प्रदेशे प्रस्थानमाहुः शुभदं नराणाम्' इति । अतः स्वयंप्रस्थाने गुणमप्याह स एव'स्वशरीरेण यः कश्चिमिर्गच्छेच्छ्रद्धयान्वितः । तस्य यात्राफलं सर्व संपूर्ण पथि सिध्यति ॥' इति । यदा तु स्वयं प्रस्थानं कृतं ततोऽपरदिनेऽष्टमचंद्रादिदोषसद्भावे न गंतव्यमित्याह नारदः-'जन्मझे चाष्टमे चंद्रे वारे भौमे शनैश्चरे । प्रस्थितेऽपि न गंतव्यं यदि स्याद्गर्हितं दिनम् ॥' इति । अष्टमचंद्रादिदोषसद्भावदुष्टे दिने यात्रा न कार्येत्यर्थः । ये तु व्यतीपातवैधतिभद्राभरण्यादिदोषसद्भावेन गर्हितेऽपि दिने यात्रा नेत्याहुस्तक । पूर्वार्धस्य वैयापाताद्वाक्यमेदाच । दोषोपलक्षणार्थमिति चेन्न । एकस्मिन्नेव दोषे उपलक्षणार्थे वक्तव्ये बहुदोषकथनस्य वैयर्थ्यात् । तस्मादष्टमचंद्रादिदोषेषु सर्वथा यात्रा न कार्या । व्यतीपातादिदोषसद्भावप्रतिबंधेषु सुखेन यात्रेति तत्त्वमिति प्रतीमः। यस्तु गृहानिर्गतो न प्रस्थानमाचरति तस्य केन क्रमेण प्रथमादिदिनगमनमित्याह चंडेश्वरः-'क्रोशं वा यदि वाऽप्यधं प्रथमेऽहनि शस्यते । द्वितीये योजनं गत्वा निवसेत महीपतिः ॥ तृतीये योजनं साधं वसेदाक्रम्य दूरतः । ततः परं यथेष्टं तु मार्गे यायान्महीपतिः ॥' इति ॥ ९१ ॥
अथ कृते प्रस्थानेऽधिकारिविशेषपुरस्कारेण कियद्दिवसनिषेधमुत्तरार्धन मैथुननिषेधं च स्नग्धराछंदसाहप्रस्थाने भूमिपालो दशदिवसमभिव्याप्य नैकत्र तिष्ठे
सामंतः सप्तरात्रं तदितरमनुजः पंचरात्रं तथैव ।। ऊर्ध्वं गच्छेच्छुभाहेऽप्यथ गमनदिनात्सप्त रात्राणि पूर्व
चाशक्तौ तदिनेऽसौ रिपुविजयमना मैथुनं नैव कुर्यात् ९२ ' प्रस्थाने इति ॥ भूमिपाल एकत्र प्रस्थाने दशदिवसमभिव्याप्य दशाहोरात्राणि न वसेत् । सामंतो मांडलिक एकत्र प्रस्थाने सप्तरानं न वसेत् । तदितरमनुजो ब्राह्मणादिः तथैव एकत्र प्रस्थाने पंचरात्रं न वसेत् । यदि दैवाद्वसेत्तदा किं कुर्यादित्यत आह-ऊर्ध्वमिति । अवधिदिवसातिक्रमानंतरं पुनर्गृहमागत्य शुभाहे पूर्वोक्तप्रकारेण विचारितशुभदिवसे गच्छेत् । यदाह वसिष्ठः-'आरभ्य निर्गमाद्यावद्दशाहं न वसेन्नृपः । मंडलीकः सप्तरात्रं प्राकृतः पंचरात्रतः । अत उचं व्रजेद्भूयो भद्रेऽन्यदिवसे नृपः । इति । भद्रे कल्याणकारिणि । श्रीपतिरपि-'वसेन चैकत्र दश क्षितीशो दिना