________________
प्रस्थातुर्विहितनियमाः] यात्राप्रकरणम् ११ ।
३९७
न्यथो सप्त च मांडलीकः । यः प्राकृतः सोऽपि न पंचरात्रं भद्रेण यात्रा परतः प्रयोज्या ॥' इति । नन्वत्र प्रस्थाने दशदिवसायतिक्रमे भूयः सुमुहूर्तेन यात्रा कार्येत्युक्तं, तन्न युक्तिसहं प्रतिभाति । यतो यात्रा हि शत्रुमारणादिद्रव्याजनाद्यर्था शत्रुमारणादिकमनोभीष्टवस्तुप्राप्तिर्यात्रासमाप्तिरित्युच्यते । न हि तां विना पुनर्मुहूर्त विचारो युक्तः । आहुश्च 'अयुक्तमेतत्प्रतिभाति नूनं होराविदां युक्तिमतां बहूनाम् । यात्रासमाप्तिः खलु वांछितार्थफलस्य सिद्ध्यै नियतं प्रदिष्टा ॥' इति । उच्यते,-वसिष्ठावृषिवचःप्रामाण्यमंगीकुर्वद्भिः किमीदृशं युक्तिविरुद्धं वक्तुमुचितम् ? यतोऽवधिकथनार्थकानां तत्तदृषिवाक्यानामप्रामाण्यप्रसंगाज्यौतिषस्मृतिलंघने दुरितोत्पत्तिः स्यात् । किंच मासगम्यमध्वानमतिक्रम्य यदि कार्यवशादशाहाद्यतिक्रमे सति तत्रापि तत एव स्थानात्सुमुहूर्तविचारोऽस्ति, किं पुनः प्रस्थाने ? यदाह वराहः-'एकत्राध्युषितस्य जगुर्यात्रामत्रात्रिगौतमच्यवनाः । पंचत्रिसप्तरात्राद्भूयाद्भद्रेण संयोज्याम् ॥' इति । 'अयुक्तमेतत्प्रतिभाति नूनम्' इति तु वाक्यं निर्मूलत्वादुपेक्ष्यम्। न हि वचनबोधितेऽर्थे युक्तिः प्रभवेत् । यथा...... तस्मादवध्यतिक्रमे सति शुभमुहूर्तेन यात्रा विधेया । अवधिमध्ये तु निषिद्धभद्राव्यतीपातादिमहादोषपरिहारायान्या यात्रा स्यादित्यलमतिप्रसंगेन । क्वचिद्दिग्विशेषेण प्रस्थाने दिवसनियमोऽभिहितः । यदाह राजमार्तड:-'प्राच्यामहानि मुनयः प्रवदंति सप्त याम्यामतीव शुभदानि दिनानि पंच । त्रीण्येव पश्चिमदिशि क्षितिनायकानां प्रस्थानकेषु दिवसद्वयमुत्तरस्याम् ॥' इति । यदा तु स्वयं प्रस्थाय परावृत्य गृहमागच्छेत्तदा पुनः सुमुहूर्तेन यात्रा कार्या । यदाह राजमार्तड:-'यस्तु संप्रस्थितो यात्रां निवर्तेत पुनर्गृहम् । कामाद्वा यदि वाकामान्न स सिद्धिमवाप्नुयात् ॥' इति । दुगोदित्यः-'कार्यवशायदि कथमपि निवर्तते प्रस्थितः स्वगृहमेव । यायात्तदा विशुद्धैः पुनरपि तिथिकरणदिवसाद्यैः ॥' इति । अथ प्रस्थानकर्तुर्नियममाह-अथेति । असौ राजादिः रिपुविजयमनाः शत्रुजये कृतांतःकरणः सन् यात्रादिनात्पूर्व सप्त रात्राणि मैथुनं संभोगं नैव कुर्यात् । यदाह च्यवन:-'त्रिरात्रं वर्जयेत्क्षीरं पंचाहं क्षुरकर्म च । तदहश्चावशेषाणि सप्ताहं मैथुनं त्यजेत् ॥' इति । वा अथवा अशक्ती सप्ताहमतिकामितया स्थातुमशक्तौ तद्दिने यात्रादिवसे मैथुनं नैव कुर्यात् । यदाह गर्ग:-'यात्राकाले तु संप्राप्ते मैथुनं यो निषेवते । रोगातः क्षीणकोशश्च स निवर्तेत वा न वा ॥' इति । अत एवानयोर्वाक्ययोमैथुनपीडासहिएण्वसहिष्णुपरा विषयव्यवस्था । मार्गमध्येऽपि मैथुननिषेधे विकल्पानाह च्यवनः-'यावद्रजति चाध्वानं यावत्कार्य न सिध्यति । यावद्वा न निवर्तेत तावद्वज्यं हि मैथुनम् ॥' इति । यदा तु प्रयाणदिने स्त्री ऋतुस्नाता भवति गमने चावश्यकता तदा मैथुनं कार्य न वेति संदेहः । तत्र यदि न कार्यमिति धेद्रूषे तदा धर्मशास्त्रविरोधः । यदाह स्वायंभुवः-'ऋतुस्नातां तु यो भार्या संनिधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥' इति ।
३४ मु. चि.