________________
३९८
. मुहूर्तचिंतामणिः। [प्रस्थातुर्नियमान्तराणि यदि कार्यमिति चेत् ज्यौतिषस्मृत्युलंघनम् । तद्वचः प्रागभिहितम् । अत्र निर्णयमाह च्यवन एव-'आत्ययिककार्यपाते पुष्पस्नातासमागमं कृत्वा । मुदितो गच्छंल्लभते मनोरथानचिरकालेन ॥' इति । यदा हि पुनर्गमनार्थ कालांतरमप्यस्ति तदातदिने मैथुनं कृत्वा कालांतरे सुलग्ने यायादित्यर्थसिद्धम्। यदा प्रस्थानकालः श्वोदिवसस्तत्पूर्वरात्रावपि मैथुनं न कार्यमित्याह लल्ल:'कृत्वा तु मैथुनं रात्रौ प्रभाते योऽधिगच्छति । नासौ फलमवामोति कृच्छ्रेण च निवर्तते ॥ कृच्छ्रेण कष्टेन ॥ ९२ ॥
अथान्यानपि प्रस्थानक नियमान्शालिन्याहदुग्धं त्याज्यं पूर्वमेव त्रिरात्रं क्षौरं त्याज्यं पंचरात्रं च पूर्वम् । क्षौद्रं तैलं वासरेऽसिन्वमिश्च त्याज्यं यत्नाभूमिपालेन नूनम्।।९३॥
दुग्धमिति ॥ यात्रादिनात्पूर्व भूमिपालेन राज्ञा उपलक्षणत्वाद्गमनकर्ता यत्वात् दुग्धं पेयस्वेन त्याज्यं न तु द्रव्यत्वेन तद्विकारः पायसं च निषिद्धम् । च पुनः पंचरात्रं पूर्व क्षौरं क्षुरसंबंधि कृत्यं मुंडनं श्मश्रुकर्म च त्याज्यम् । अस्मिन वासरे यात्रादिने क्षौद्रं मधु भक्ष्यत्वेन तैलं तैललापनं त्याज्यम् । चमिश्चेदैवोद्भूता शरीरशोधनार्थ बलात्कारकृता वा यात्रादिने निषिद्धा नूनं निश्चितम् । यदाह च्यवनः-'वपनं वमनं क्षौद्रं तैलं चैव विवर्जयेत् । तदहश्नावशेषाणि सप्ताहं मैथुनं त्यजेत् ॥' इति । वपनं श्मश्रुकर्मणोऽप्युपलक्षणम् । तथोक्तं वसिष्ठेन-'यात्राहवे तूत्कटभूषिते च भुक्तोत्कटे रात्रिषु संध्ययोर्वा । क्षौर प्रकुर्यात्खलु चात्मनो हि श्रेयोभिलाषी न कदाचिदेव ॥' इति क्षौरपदोपादानात् । क्षौरमशुभपदार्थोपलक्षणम् । यदाह स एव-कामं क्रोधं तथा लोभं मयं मांसं च रोदनम् ॥' इति ॥ ९३ ॥ अथान्यानपि प्रस्थानक नियमान् गीताख्यछंदसाहभुक्त्वा गच्छति यदि चेत्तैलगुडक्षारपक्वमांसानि । विनिवर्तते स रुग्णः स्त्रीद्विजमवमान्य गच्छतो मरणम् ॥१४॥
भुक्त्वेति ॥ तैलं तैलपक्कानि वटकादीन्यनानि वा, गुडमिक्षुविकारं तस्पाचितमझं वा क्षारं सलवणं पक्कमांसानि रंधितमांसानि यो भुक्त्वा गच्छति स राजादिः रुग्णो रोगसहितो निवर्तते । यदाह गर्ग:-'कटुतैलगुडक्षारपक्रमांसाशनं तथा । भुक्त्वा यो यात्यसौ मोहाद्वयाधितः स निवर्तते ॥' इति । अत्र मांसदुग्धादिनिषेधस्तत्तन्नक्षत्रादिदोहदव्यतिरिक्तविषयः । दोहदस्य विशेषविहितत्वात् । स्त्रीद्विजमिति । स्त्री च द्विजश्व अनयोः समाहारः, स्त्रीद्विजं स्त्रियं स्वीयां परकीयां वा । द्विजः ब्राह्मणः, 'दंतविप्रांडजा द्विजाः' इत्यभिधानात् । अवमान्य धिक्शब्दताडनादिना मानभंगं कृत्वा गच्छतः पुंसो मरणं स्यात् । यदाह गर्ग:-'यस्तु संप्रस्थितो यात्रा भायाँ नैवाभिनंदति । भार्या वा नाभिनंदेत. न स प्रतिनिवर्तते ॥ परकीयां