________________
अकालवृष्टिदोषः ]
यात्राप्रकरणम् ११ ।
३९९
स्वकीयां वा स्त्रियं पुरुषमेव वा । ताडयित्वा तु यो मोहात्तदंतं तस्य जीवितम् ॥ यात्रायां प्रस्थितो यश्च ब्राह्मणानवमानयेत् । नासौ प्रतिनिवर्तेत तदंतं तस्य जीवितम् ॥' इति । केचित् शुभाशुभशब्दान् यात्राकाले शुभाशुभसूचकानाहुः । यदाह लल्लः - 'प्रापय गच्छ विसर्जय निर्गच्छ व्रज विमुंच संसर्प । सिद्धिकराः खल्वेते प्रमोदजयजीवशब्दाश्च ॥ मा गास्तिष्ठ निवर्त व गम्यते मूढ दुर्मते मोहात् । यात्रां नेच्छंति बुधाः क्षुतका सितभीतशब्दैश्च इति । कासितं = रोगार्तध्वनिर्हिक्कादिः ॥ ९४ ॥
अथ कालवृष्ट्याख्यं दोषं सलक्षणं वसंतमालिकाछंदसाह— यदि मास्सु चतुर्षु पौषमासादिषु वृष्टिर्हि भवेदकालवृष्टिः । पशुमर्त्यपदांकिता न यावद्वसुधा स्यान्न हि तावदेव दोषः ॥ ९५ ॥
यदीति ॥ पौषादिषु चतुर्षु पौषमाघफाल्गुन चैत्राख्येषु मासेषु यदि वृष्टिर्भवेत् साऽकालवृष्टिः स्यात् । पौषादयश्चत्वारो मासा वृष्ट्यकालः, तत्र भवा वृष्टिरकालवृष्टिरुच्यते । यदाह राजमार्तडः - ' पौषादिचतुरो मासान् प्राप्ता वृष्टिरकालजा ॥' इति । तत्राकालवृष्ट्यां जातायां यदि वसुधा पृथ्वी यावत्पशवो गवादयः मर्त्या मनुष्यास्तेषां पदैश्वरणैरंकिता चिह्निता न भवति तावदकालवृष्टिदोषो नास्ति । यदा पशुचरणांकिता वसुधा स्यात्तदाऽकालवृष्टेर्दोषवत्त्वमस्येव । यदाह राजमार्तड : - ' वृष्टिः करोति दोषं तावन्नाकालसंभवा राज्ञाम् । यावन्न भवति याने नरपशुचरणांकिता वसुधा ॥' इति । अस्यार्थः- अकालसंभवा वृष्टिः राज्ञां गमने तावद्दोषं न करोति । यावद्वसुधा याने गमने नरपशुचरणांकिता न भवति । तेनातिस्वल्पया रजोपगममात्र भवति । तत्र पश्वादिचरणचिह्नाभावाद्दोषाभावः । यदा तु किंचिदधिका वृष्टिः स्यात्तदा कर्दमसद्भावात्पश्वादिचरणचिह्नानि जायंते तदा दोष एव । स च सप्तरात्रिक इत्युक्तं प्राक् । अत्र केचिदल्पा वृष्टिर्दोषाय, न महतीति वदंति । तत्रेयं युक्तिः – अल्पवृष्ट्या कर्दमबाहुल्यात्पश्वादिचरणचिह्नानां वसुधायां दर्शनादित्यल्पवृष्टेर्दोषवत्त्वम्, महत्त्वात्तु वृष्ट्याः सकलकर्दमापाकरणात्पश्वादिचरणचिह्नादर्शनाद्दोषाभावः । तदेतदृषिप्रणीत संहिताग्रंथाभिहितविषयाऽज्ञानां केवलन्यायाभिनिविष्टमनसां मतम् । तथा हि- मार्गशीर्ष शुक्लपक्षप्रतिपदादयः सार्धाः षण्मासा मेघानां गर्भग्रहणकालस्तदनंतरं वृष्टिर्भवति । यदाह कश्यपः - 'सितादौ मार्गशीर्षस्य प्रतिपद्दिवसे तथा । पूर्वाषाढागते चंद्रे गर्भाणां धारणं वदेत् ॥' इति । गर्गोऽपि - 'शुक्लादौ मार्गशीर्षस्य पूर्वाषाढाव्यवस्थिते । निशाकरे तु गर्भाणां तदादौ लक्षणं वदेत् ॥' इति । गर्भप्रसवकालज्ञानं वराहेण प्रोक्तम्- 'यन्नक्षत्रमुपगते गर्भश्चंद्रे भवेत्स चंद्रवशात् । पंचनवतौ दिनशते १९५ तत्रैव प्रसवकालमायाति ॥' इति । माससंहितायां च 'पौषासितपक्षाद्यैः श्रावण शुक्लादयो विनिर्देश्याः । साधैः षड्भर्मासैर्गर्भविपाकः स्वनक्षत्रे ॥' इति । विशेषमाह वराहः - 'सितपक्षभवाः कृष्णे शुक्ले कृष्णा