________________
W
मुहूर्तचिंतामणिः। [अकालवृष्टिदोषफलं धुसंभवा रात्रौ । नक्तंप्रभवाश्चाहनि संध्याजातास्तु संध्यायाम् ॥' इति । कृष्णाः कृष्णपक्षोद्भवा गर्भाः। एवं सार्धषण्मासा गर्भग्रहणकालः, तदनंतरं जायमाना वृष्टिः कालवृष्टिरिति । यदा वृष्टिकालव्यतिरिक्ते काले वृष्टिर्गर्भनिर्गलनरूपा स्यात् साऽकालवृष्टिः, भकाले अयोग्ये काले वृष्टिरिति निर्वचनसंभवात् । एतदेवाभिप्रेत्योक्तं 'सौदामिनीवर्षणगर्जितेषु' इति पद्यव्याख्याने महादेवेन गृहीतगर्भाणां मेघानां यो वृष्टिकाल उक्तस्तं विना यदि वृष्टिर्गर्भनिर्गलनरूपा स्यात्साऽकालवृष्टिरिति । तत्र मार्गशीर्षशुक्लादितो मेघानामवश्यं गर्भसंभवात्तचिह्नभूता किंचिदृष्टिरवश्यमपेक्षितैव । यदाह वराहः-'पवनसलिलविद्युद्गर्जिताभान्वितो यः स भवति बहुतोयः पंचभूताभ्युपेतः । विसृजति यदि तोयं गर्भकाले तु भूरि प्रसवसमयमित्वा शीकरांभः करोति ॥' इति । तेन किंचिदृष्ट्यांगर्भसत्तानिश्चयादल्पा वृष्टिर्न दोषमावहतीति। अल्पवृष्ट्यामपि त्रैराशिकवशादत्यल्पवृष्टयां नैव दोषः। ततः किंचिदधिकायां दोषतारतम्यम् । तत्र मार्गशीर्षाद्या गर्भा मंदफलाः।पौषशुक्लजाताश्चेति । बृहद्यात्रायां वराहोक्तेर्मार्गशीर्षगर्भाणां मंदफलत्वम् । तं च मार्गशीर्षमतिक्रम्य पोषादिवृष्टेरकालिकत्वम् । अत एवोक्तम्-'पौषादिचतुरो मासान्प्राप्ता वृष्टिरकालजा ॥' इति । मंदफलत्वादितुल्यन्यायतया च मार्गवृष्टेरप्याकालिकत्वम् । तदप्युक्तं राजमार्तडेन'मार्गान्मासात्प्रभृति मुनयो व्यासवाल्मीकिगर्गाश्चैत्रं यावद्गमनसमये वृष्टिदोष वदंति ॥' इति । एवं सति गर्भनिर्गलनं विकृतिः, सा यथा स्वल्पा सती नरपशुचरणांकितत्वेन किंचिद्दोषं जनयति, तथा उपचीयमानापि विकृतिर्महांतं दोषमादधाति, तेन महावृष्टेर्दोषवत्त्वमेव न दोषाभावः । अत एवोक्तंवराहसंहितायाम्-'गर्भसमयेऽतिवृष्टिर्गर्भाभावाय निमित्तकृता । द्रोणाष्टांशेऽभ्यधिके वृष्टेनर्भः सुतो भवति ॥' निमित्तं शुक्रास्तादि । बृहधात्रायामपि-'भृशं क्षरंतो रुधिरारुणाभाः सशक्रचापाः खररूक्षनादाः । रणोपयोज्याकृतिचित्ररूपा रणाय दृष्टा गमनेऽम्बुवाहाः ॥' इति । अन्यदपि तेनैवोक्तम् । 'सप्ताहं सतताऽन्यतौं वृष्टिर्हन्यानराधिपम् ।' इति । सतता निरंतरा । मेघभेदस्तेनैवोक्तः-'सप्ताहांतर्बलभयकरी वृष्टिरन्यर्तुजाता केचिद्यात्रामसितजलदैः संयुतां पूजयति। चित्राभ्रायां बलमतिवधो रुक्सपीतांबुदायां शुक्लाब्दायां न भवति चिराद्वयंबुदायां च नाशः॥' इति । चित्राभ्रायां वृष्टाविति शेषः । अनेनैवाशयेन क्वचित्पठ्यते-'वृत्तेऽप्यकालवर्षे तु तावहोषो न जायते । यावन्न यानसमये पशुपादांकिता मही ॥' इति । तस्सासिद्धमेतत्-यदत्यल्पायामकालवृष्टौ दोषाभावः, अल्पायामकालवृष्टौ अल्पदोषः, महत्यामकालवृष्टौ महादोष इति । वसिष्ठोऽपि वृष्टिविशेष फलविशेषमाह-'अकालं सततं वृष्टिः सप्ताहं नृपतेर्वधः । रक्तवृष्टौ रणोद्योगो मांसवृष्टौ महद्रणम् ॥ मरकश्चास्थिवर्षे स्यादसावर्षेऽपि तत्फलम् । क्षौद्रवर्षे राष्ट्रनाशस्त्वंगारैः पांशुभिर्गदः । धान्याकफलपुष्पाचुलोहैश्चापि महद्भयम् । पर्णैस्तृणैः काष्ठवषैस्तदेव फलमादिशेत् ॥ पाषाणवृष्टिरभ्रेषु प्राणिवृष्टिरथापि वा । चित्र... १ महामारी इति भाषायाम् ।