________________
दुष्टशकुनशांतिः] यात्राप्रकरणम् ११ ।
४०१ वृष्टिर्यदि भवेत्सस्यानामीतिकारणम् ॥' इति । अत्र रक्तवृष्ट्यादीनां वृष्टित्वादेव निषेधे सिद्धे पुनर्ग्रहणं कृतं तत्कालवृष्टावण्यासां वृष्टीनां दोषसूचनार्थम् । यत आसां वृष्टीनामुत्पातत्वमस्ति, 'तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः' इति वराहोक्तेः ॥ ९५ ॥
अथामुमेवार्थ स्पष्टीकुर्वन्सन्नावश्यकयात्रायां तच्छांतिकं प्रसंगाढुष्टशकुनोद्भूतारिष्टशांतिकं चातिशक्कां गाथाछंदसाहअल्पायां वृष्टौ दोषोऽल्पो भूयस्यां दोषो भूयान्
जीमूतानां निर्घोषे वृष्टौ वा जातायां भूपः । सूर्यन्द्वोर्बिबे सौवर्णं कृत्वा विप्रेभ्यो दद्या
दुःशाकुन्ये साज्यं स्वर्ण दत्त्वा गच्छेत्स्वेच्छाभिः॥९६॥ अल्पायामिति ॥ अल्पायामकालवृष्टावल्पो दोषः स्यात् । भूयस्यामतिशयेन बह्वी भूयसी तस्यामकालवृष्टौ भूयानतिशयेन महान्दोषः । अतो यत्प्राच्याः पठंति-'तावत्प्रयाणादिषु भूपतीनामकालवृष्टिः प्रकरोति दोषम् । यावद्भवेत्संचरतां जनानां तथा पशूनां चरणांकिता भूः ॥' इति, तदेतन्निर्मूलत्वाद्युक्त्यसहत्वाच्चोपेक्ष्यम् । अयं चाकालवृष्ट्याख्यो दोषः प्रयाणानंतरं सप्तरात्रं यावद्विलोकनीय इति महादेवेन व्याख्यातं, न तत्र प्रमाणं पश्यामः । किंतु जातायामकालवृष्टौ यात्रामेव न कुर्यात् । कृते तु स्वयं प्रस्थाने मार्गमध्ये नास्त्ययं दोषः। शुक्राद्यस्तादिदोषो मार्गमध्ये 'जीवः शशांकः शुक्रो वा' इति वचनबलादंगीक्रियते । प्राच्यास्तु महत्यामकालवृष्टौ दोषाभावं वर्ण. यति तेषामाशयं न विद्मः। अथ सत्यप्यकालवृष्ट्यादिनिमित्ते आवश्यकयात्रायां दानमाह-जीमूतानामिति ॥ जीमूतानां मेघानां नि?षे शब्दे वृष्टावकालवृष्टौ जातायां वा सूर्येद्वोः सूर्याचंद्रमसोबिंबे स्वरूपे सौवर्णे यथाशक्ति सुवर्णनिर्मिते कृत्वा भूपो राजा विप्रेभ्यो ब्राह्मणेभ्यो दद्यात् । यदाह मांडव्यः'दुर्दिने गर्जिते वृष्ट्या सूर्याचंद्रमसोईयोः। बिंबे विधाय शांत्यर्थं श्रोत्रियाय निवेदयेत् ॥' इति । यद्यपि 'श्रोत्रियंश्छंदोधीते' इति पाणिनिवचनाच्छंदोऽध्येतृत्वेन श्रोत्रियत्वमुच्यते, तञ्च वर्णत्रयसाधारणम् । तथापि प्रतिग्रहाधिकारी ब्राह्मण एव श्रोत्रियशब्देन व्याकर्तव्यः । अत एव मूले विप्रपदोपादानम् । अकालवृष्टौ शांतिर्महता ग्रंथसंदर्भेण बृहद्यात्रायां वराहेणाभ्यधायि, सातत एवावधार्या । क्वचिदकालवृष्टेरपवादः पठ्यते । यथा-'एकेनैकमहः प्रोक्तं द्वितीयेन त्रिरात्रकम् । तृतीयेन तु सप्ताहं दशरात्रमतः परम् । पौषे दिनत्रयं वयं माघे चैव दिनद्वयम् । फाल्गुने दिनमेकं तु चैत्रे तु घटिकाद्वयम् ॥' इति, तदेतदप्यात्ययिककार्यविषयं ध्येयम् । अथ प्रसंगाढुष्टेऽपि शकुने जातेऽवश्यविधेयायां यात्रायां दानमाह-दुःशाकुन्ये इति । शकुन एव शाकुन्यम् । चतुर्वर्णादेराकृतिगणत्वात्ष्यञ्।दुष्टं च तत् शाकुन्यं च दुःशाकुन्य,