________________
मुहूर्तचिंतामणिः । [ अनध्याये व्रतबंधनिषेधः
"
यदि गर्जति । तद्दिनं स्यादनध्यायो व्रतं तत्र विवर्जयेत् ॥' इति । संध्याक्षणं प्रागुक्तमस्माभिः । तथा गलग्रहे गलग्रहाख्ये दिवसे व्रतबंधो नेष्टः । गलग्रहानाह गुरुः - ' त्रयोदश्यादिचत्वारि सप्तम्यादिदिनत्रयम् । चतुर्थी चैकतः प्रोक्ता अष्टावेते गलग्रहाः ॥ ' यत्तु वसिष्ठेन - 'कृष्णपक्षे चतुर्थीति सप्तम्यादिदिनत्रयम् । त्रयोदशीचतुष्कं च अष्टावेते गलग्रहाः ॥ ' इत्यत्र कृष्णपक्षीयचतुर्थीग्रहणं कृतं तद्दोषाधिक्यप्रतिपत्त्यर्थम् नतु शुक्लपक्षीयचतुर्थ्या अग्रहणा`र्थम् । कुतः ? गुरुवाक्यस्य वैयर्थ्यापत्तेः । अत्र दैवज्ञमनोहरे- 'प्रदोषो निश्यनध्याये मंदे कृष्णे गलग्रहे । मधुं विनोपनीतस्तु पुनः संस्कारमर्हति ॥' इति । मधुं=चैत्रम्। ज्योतिर्मनुः - 'अनध्यायोपनीतस्तु पुनः संस्कारमर्हति । गलग्रहे प्रदोषे च स्वल्पायुरुपजायते ॥' इति । नन्वत्र रात्रिनिषेधो व्यर्थः । यतो दिवसे पूर्वाह्लादयस्त्रयः काला उपनयने श्रेष्ठमध्याधमा उक्ताः । यदाह मनुः -सर्वदेशेषु पूर्वाह्णे मुख्यं स्यादुपनायनं । मध्याह्ने मध्यमं प्रोक्तमपराह्णे च गर्हितम् ॥' तत्र 'अपराह्नोपनीतस्तु पुनः संस्कारमर्हति' इत्यपराह्न कालस्यातिनिषिद्धत्वात् कैमुतिकन्यायेन रात्रिरपि निषिद्धेति वाचनिको रात्रिनिषेधो व्यर्थ इति चेत्,सत्यम्; 'अंगवंगकलिंगेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गच्छन्पुनःसंस्कारमर्हति ॥' इति पुनः संस्कारनिमित्तापत्तौ निमित्तांतरमेव नैमित्तिकमिति न्यायेन पुनरुपनयने प्राप्ते यदि रात्रिसद्भावस्तदोपनयनं मा भूदिति रात्रिपदोक्तिः । अनयैव रीत्या प्रदोषोक्तिरपि सार्थिका । यतः सायंकालीन समयः प्रदोषशब्दवाच्यः, 'प्रदोषो रजनीमुखम्' इत्यमरोक्तेः । वयं तु- प्रदोषग्रहणाचद्दिने लक्षणविशिष्टः प्रदोषो भवेत्तद्दिनमुपनयने त्याज्यमिति ब्रूमः । यत्राराहूकालो निंदितस्तत्र प्रदोषस्तु सुतरां निंद्यः । इति प्रदोषग्रहणसामर्थ्यात् युनरुपनयन निषेधार्थ प्रदोषग्रहणमिति चेन्न । रात्रिपदवत्सर्वथा वैयर्थ्य सत्येवं गतिर्युक्ता । न च तदत्र पश्यामः । अत एव निबंधकर्तृभिरुपनयनप्रकरण एव प्रदोषलक्षणवाक्यानां लिखितत्वात् । यद्यपि तानि 'सर्वविद्याविघातकृत्' इति, 'ब्रह्म नाधीयते नरैः' इत्यादीनि सामान्यतो विद्यारंभवेदारंभविषयकाणि, तथापि प्रथमातिक्रमे कारणाभावादक्षरस्वीकारस्थल एव तल्लेखनस्य युक्तत्वादतः शिष्टाः सायं यद्दिने प्रदोषस्तद्दिने गलग्रहरहितेऽप्युपनयनं कुर्वति । उक्तं च शार्ङ्गधरीये – 'स्वाध्याये पूर्वाह्णे प्रदोषरहिते तथा विरिक्ते च । हित्वा शनिकुजवारौ स्वाध्याये पूर्वपरदिवसे च ॥' नन्वनध्यायेषु गलग्रहेषु च व्रतबंधो निषिद्ध इत्युकं तदयुक्तम् । विहिततिथ्यभावादेव भविष्यति । विहिताश्च तिथय इमाः द्वितीयातृतीयापंचमीषष्ठीदशम्येकादशीद्वादश्यो द्वित्रीष्वित्यादिनोक्ताः । उच्यते-द्विविधा अनध्यायाः - नित्या नैमित्तिकाश्च । नित्या अष्टम्यादयः, नैमित्तिका मन्वाद्यास्तत्र मन्वादिराषाढशुक्ल दशमी स्वाध्याय एव । सोपपदा अपि स्वाध्याया एव । संक्रांतिः कदाचित्स्वाध्यायेष्वपि स्यादित्येतासु तिथिषु व्रतबंधो मा भूदिति आसामनध्यायोक्तिः । चैत्रशुद्धवैशाखशुद्ध तृतीययोर्मन्वादियुगाद्योस्तु 'या चैत्रवैशाखसिता तृतीया' इत्यादिवसिष्ठवाक्येन वाचनिकं
२१२