________________
खनवांशे चंद्रनवांशफलं] संस्कारप्रकरणम् ५।
२१३ प्रतबंधविषयत्वम् । अन्यासां मन्वादिस्वाध्यायतिथीनां दक्षिणायनगतानामनध्यायत्वं प्रथमवेदारंभो मा भूदिति प्रयोजनम् । 'ब्रह्म नाधीयते नरैः' इति वाक्यांतेऽभिधानात् । वेदस्योपलक्षणात्सकलविद्यारंभोऽपि । एतच्च सामान्यतः सर्वासामप्यनध्यायतिथीनां प्रयोजनम् । मन्वादितिथिषु दानादिकमपि प्रयोजनं मर्यते । मत्स्यपुराणे-'मन्वंतरादयश्चैते दत्तस्याक्षयकारकाः' इति । अथ चतुर्दश्यादयो यद्यनध्याया नोच्येरंस्तदा विहितप्रतिषिद्धत्वाभावान्मध्यमत्वावसायस्तिथीनां स्यात्तत्र यथा स्वशाखीयनक्षत्रालाभे अनिषिद्धान्यन्यान्यपि नक्षत्राणि गृह्यन्ते तथा कदाचिद्विहिततिथ्यलाभे मध्यमतिथिष्वप्युपनयनं स्यात्तन्मा भूदित्येतदर्थ चतुर्दश्यादीनामनध्यायत्वम् । एतदेव समा. धानं तुल्यन्यायत्वाद्गलग्रहेष्वपि ध्येयम् । किंच-'विद्यारंभो व्रतोद्देशः क्षौर चैव विशेषतः। गलग्रहे न कर्तव्यं यदीच्छेत्पुत्रजीवितम् ॥' इति गुरुणा क्षौरादिनिषेधोक्तेश्च । क्वचिद्बहून्यपि कर्माणि गलग्रहे निषिद्धानि । उक्तं च'चूडाव्रतं तथोद्वाहं कर्णयोरपि वेधवम् । गलग्रहे न कर्तव्यं यदीच्छेत्पुत्रजीवितम् ॥' इत्यलमतिप्रसकानुप्रसक्तेन ॥४८॥ अथ व्रतबंधलग्ने रव्याचंशफलमनुष्टुभाह
क्रूरो जडो भवेत्पापः पटुः षट्कर्मकृद्दुः ।
यज्ञार्थभाक्तथा मूर्यो रव्याचंशे तनौ क्रमात् ॥४९॥ ऋर इति ॥ षट्कर्माणि अध्ययनाध्यापनयजनयाजनदानप्रतिग्रहाः । उक्तं च व्यासेन-'यजनं याजनं चैव तथा दानप्रतिग्रही। अध्यापनं चाध्ययन षट्कर्मा धर्मभारिद्वजः ॥' इति । अन्यत्स्पष्टार्थम् । तदुक्तं रत्नमालायाम्'शन्यंशे झुदयति मूर्खतार्कभागे क्रूरत्वं भवति च पापधीः कुजांशे । चंद्राशे त्वतिजडता बुधे पटुत्वं यज्वत्वं गुरुभृगुभागयोगुणति ॥' इति । भीमपराक्रमोऽपि-'भवेत्क्रूरो जडः पापः पटुर्यज्वा मखान्वितः। मूर्खश्चार्कादिकांशेषु क्रमे णोदयवर्तिषु ॥' इति । एवं सति बुधगुरुशुक्रस्वामिकराशीनां नवांशा ग्राह्याः। एतच स्पष्टमुक्तं नारदेन-'लनेऽथ राशयः श्रेष्ठाः शुभग्रहयुतेक्षिताः । शुभा नवांशा न तथा ग्राह्यास्ते शुभराशयः ॥ न कदाचित्कर्कटांशः शुभग्रहयुतोऽपि वा । तस्माद्गोमिथुनात्याश्वतुलाकन्यांशकाः शुभाः॥' इति। अश्व: धनुः। तथा सति वृषमिथुनकन्यातुलाधनुर्मीनांशा ग्राह्या इति निष्कृष्टोऽर्थः ॥ ४९ ॥
अथ चंदनवांशफलं स्वनवांशे सापवादं मोटनकछंदसाहविद्यानिरतः शुभराशिलवे पापांशगते हि दरिद्रतरः। चंद्रे खलवे बहुदुःखयुतः कर्णादितिभे धनवान्खलवे ॥५०॥
विद्यानिरत इति ॥ यस्मिन् कस्मिंश्चिद्राशौ चंद्रो यदि शुभग्रहराशिनवांशे स्यात्तदा व्रती विद्यानिरतो भवेत् । यदि पापग्रहराशिनवांशे चंद्र