________________
२१४
मुहूर्तचिंतामणिः। [चंद्रादियुतिफलं स्तदा दरिद्रतरो धनधान्यरहितः स्यात् । यदि स्वलवे कोशे स्यात्तदा बहुदुःखयुतो भवेत् । उक्तं च कश्यपेन-'शुभग्रहांशगे चंद्रे विद्यावान् धनवान् व्रती। तस्मिन्पापांशसंस्थेऽतिनिर्धनोऽखिलदुःखभाक् ॥ स्वांशसंस्थे निशानाथे दरिद्रः खलु दुर्जनः ॥' इति । वसिष्ठेन प्रत्येकं फलमुक्तम्'सूर्याशकगते चंद्रे महापातककृद्रती। पण्योपसेवी स्वांशस्थे नीचे निःस्वः खलो भवेत् ॥ कुजांशकगते चंद्रे शस्त्रजीवी खलो व्रती। बुधांशकगते चंद्रे वेदवेदी भवेत्पटुः ॥ जीवांशकगते यज्वा सांगवेदविशारदः । शुक्रांशगे धनी दाता विद्यावित्तविशारदः ॥ क्षिप्रोद्वाही यज्ञकृत्स्यात्सत्रदो भोगवाग्भवेत् । सौरांशकगते चंद्रे सदा चांडालसेवकः ॥' इति । अथ स्वांशस्थितस्य चंद्रस्यापवादमाह-कर्णेति । यदि कर्णे श्रवणनक्षत्रे अदितौ पुनर्वसुभे चोपनयने सति स्वांशः चंद्रस्य नवांशश्चेत्स्यात्तदा व्रती धनवान् स्यात् । तदुकं नारदेन-'श्रवणादितिनक्षत्रे कांशस्थे निशाकरे । तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान् ॥' इति ॥ ५० ॥ अथ केंद्रस्थानां सूर्यादीनां फलमनुष्टुभाह-- राजसेवी वैश्यवृत्तिः शस्त्रवृत्तिश्च पाठकः । प्राज्ञोऽर्थवान्म्लेच्छसेवी केंद्रे सूर्यादिखेचरैः ॥५१॥
राजसेवीति ॥ केंद्रे सूर्यादिग्रहैः सद्भिः प्रत्येकं हि तत्क्रमादिदं फलं ज्ञेयमित्यर्थः । अन्यत्स्पष्टम् । यदाह श्रीपतिः-'स्वानुष्टाने रतः स्यात्प्रचुरमतियुतः केंद्रसंस्थे सुरेज्ये विद्यासौख्यार्थयुक्तो ाशनसि शशिजेऽध्यापकश्च प्रदिष्टः । सूर्ये राजोपसेवी भवति धरणिजे शस्त्रवृत्तिद्धिजन्मा शीतांशी वैश्यवृत्तिर्दिनकरतनये सेवकश्चांत्यजानाम् ॥' अंत्यजानां-चांडालानाम् । भत्र लग्नस्थं चंद्रं केंद्रस्थं च शनि विना शुभाः पापाश्च शुभफला इत्यवगम्यते । मुनिभिस्तु केंद्रपापा निषिद्धा इत्युक्तम् । यदाह नारद:-'स्फूर्जितं केंद्रगे भानौ व्रतिनो वंशनाशनम् । कूजितं केंद्रगे भौमे शिष्याचार्यविनाशनम् ॥ करोति रुदितं केंद्रसंस्थे मंदे महागदम् । लग्ने केंद्रगते राही रंधे मातृविनाशनम् । उने केंद्रगते केतौ व्रतिवृत्तविनाशनम् ॥' इति । तत्र सूर्यस्य सर्वशाखाधिपत्वात्केंद्रसंस्थत्वमावश्यकविषयं द्रष्टव्यम् । उक्तं च दैवज्ञमनोहरे-'सर्वशाखाधिपं भानु केचिदूचुमहर्षयः । तस्माद्गत्यंतराभावे लमस्थोऽर्कः प्रशस्यते ॥' लग्नग्रहणं केंद्रोपलक्षणम् । तथा स्वगृहोच्चाद्यवस्थिताः पापग्रहाः केंद्रस्थाः शुभफलदातारोऽन्यथा नेत्यर्थः । इति विरुद्धार्थयोर्वचनयोर्विषयविवेकः ॥ ५१ ॥ __ अथ चंद्रगुरुशुक्राणां ग्रहयुतौ फलमनुष्टुभाह
शुक्रे जीवे तथा चंद्रे सूर्यभौमार्किसंयुते । . निर्गुणः क्रूरचेष्टः स्यानिघृणः सद्युते पटुः ॥५२॥
शुक्र