________________
चंद्रवशेन शुभाशुभयोगौ] संस्कारप्रकरणम् ५।
२१५ शुक्र इति ॥ शुक्रे तथा जीवे गुरौ तथा चंद्रे च प्रत्येकं सूर्यसंयुते व्रती निर्गुणः स्यात् । एवं भौमसंयुते सति क्रूरचेष्टः क्रूरा हिंसनशीला चेष्टा हस्तादिचापलं यस्य स तादृशः स्यात् । तथार्किः शनिस्तेन संयुते निघृणः निर्लजो निर्दयो वा स्यात् । तथा तस्मिन्नेव शुक्रे जीवे चंद्रे वा प्रत्येकं सद्भिः चंद्रबुधगुरुशुक्रैः युते पटुः सर्वविद्यानिपुणः स्यात् । उक्तं च रत्नमालायाम्-'सार्के जीवे निर्गुणोऽर्थेन हीनः क्रूरः साऽऽरे वाक्पटुः सत्समेते । भानोः पुत्रेणालसो निघृणश्च स्थाच्छु–दू जीववत्संप्रकल्प्यौ ॥' इति ॥ ५२ ॥ अथ चंद्रवशेन शुभाशुभयोगौ प्रमाणिकयाहविधौ सितांशगे सिते त्रिकोणगे तनौ गुरौ ।
समस्तवेदविद्वती यमांशगेऽतिनिघृणः ॥ ५३॥ विधाविति ॥ विधौ चंद्रे शुक्रांशगे सति शुक्रे च नवमपंचमस्थानस्थिते गुरौ लग्नस्थे च सति व्रती बटुः समस्तांश्चतुरो वेदान्वेत्ति जानाति तादृशः स्यात् । एवं यमांशगे शनिनवांशस्थिते चंद्रे सति लग्ने गुरौ च सति सिते त्रिकोणगे सत्यप्यतिनिघृणः स्यात् । यदाह महेश्वरः-'जीवे लग्नमधिष्ठिते भृगुसुते धर्मात्मजस्थे विधौ । शुक्रांशेऽखिलवेदविद्रविसुतस्यांशे कृतनोऽधमः ॥' इति । अपरे तु गुरुशुक्रयुक्तेऽपि शन्यंशस्थे चंद्रे सत्यतिनिघृण इति व्याचक्षते । तदुक्तं रत्नमालायाम्-'लग्ने जीवे भार्गवे च त्रिकोणे शुक्रांशस्थे स्याद्विधौ वेदवेदी । सौरांशस्थे सूरिलग्ने सशुक्रे विद्याशीलप्रोज्झितः स्यात्कृतघ्नः॥' इति । सूरिलग्ने-सूरिबृहस्पतिस्तद्युक्ते लग्ने । इति व्रतबंधे लग्नविचारः ॥ ननु व्रतबंधे बटुराशितोऽष्टमभवनादिशुद्धिरुक्ता । यदाह वसिष्ठः-'न नैधनं नैधनशुद्धिलग्नं न नैधना न च तन्नवांशः। न नैधनेशो न तदंशको वा लग्ने प्रशस्तो न च रात्रिनाथः ॥' इति । सा ग्रंथकृता कुतो नोक्तेति । अत्र ग्रंथकृदाशयं वयं ब्रूमः-वीक्षिते वाथैकविंशन्महादोषविवर्जिते' इति नारदोक्तस्तेषां दोषाणां च विवाहप्रकरणे वक्ष्य. माणत्वात्तत्रापि दंपत्योरष्टमं लग्नमित्यपि दोषः सलक्षणो वक्ष्यते । तत्र दंपत्योरिति संस्कार्योपलक्षणम् तेन बटोरप्यष्टमभवने शुद्धिरुक्तैवेत्यत्र पुन
नॊक्ता । यत्र तु एकविंशतिदोषविचारो नास्ति सीमंतादौ किंतु कतिपयदोषविचारस्तत्र तु साक्षादष्टमभवनशुद्धिरुक्ता, अग्रेऽपि यात्रादौ वक्ष्यते चेति । एवं
चेन्नैधननवांशशुद्ध्यादि कुतो नोक्तम् ? सत्यम् । वक्तव्यमेवेति ब्रूमः । परंतु नारदाद्यनेकमुनिभिरप्रणीतत्वानोक्तमिति ग्रंथकृदाशयः । एवंविधे व्रतबंधलग्ने व्रतं कुर्यात् । तदाह नारदः-'शुभलग्ने शुभांशे वा नैधने शुद्धिसंयुते । लग्ने त्वन्यैः सौम्यखेटैः संयुते वा निरीक्षिते ॥ जीवार्कशुक्रचंद्रायैः पंचभिर्बलिभिर्घहैः । स्थानादिबलसंपन्नश्चतुर्भिर्वा बलान्वितैः ॥ वीक्षिते वाथैकविंशन्महादोषविवर्जिते ॥' इति । अथ सर्वथा यदि निर्दूषणं लग्नं न लभ्यते तदा का गतिरिति । उच्यते,-वेधादिमहादोषराहित्ये सत्यल्पदोषसत्त्वे