________________
२१६
मुहूर्तचिंतामणिः। [अनध्यायविचारः गुणाधिक्ये च लग्नं साधीयो भवति । तदुक्तं नारदेन-'लग्नं सर्वगुणोपेतं लभ्यतेऽल्पैर्दिनैर्न तत् । दोषाल्पत्वं गुणाधिक्यं बहुसंमतमिष्यते ॥ दोषदुष्टो हि कालो यः सोऽपमाष्टुं न शक्यते ॥' इति । दोषदुष्टत्वं वसिष्ठेनोक्तम्-'दोषोऽप्येको गुणान्हंति तद्विरोधी गुणो न चेत् । पंचगव्यमयं पूर्णकुंभं मद्यलवो यथा ॥' इति । दोषः पापग्रहवेधादिः । अन्येऽपि दोषा अत्र व्रतबंधे वसिष्ठादिभिरुक्ताः-'ग्रहे रवींद्वोरवनिप्रकंपे केतू दमोल्कापतनादिदोषे । व्रते दशाहानि वदंति तज्ज्ञास्त्रयोदशाहानि वदंति केचित् ॥' श्रीपतिनिबंधे-'पौषादिचतुरो मासान्प्राप्ता वृष्टिरकालजा । व्रतं यात्रां विवाहं च वर्जयेत्सप्तवासरान् ॥' यत्तु गर्गवाक्यम्-'बहुवर्षे त्रिरात्रं स्यादल्पवर्षे तु वासरम् । यदि वर्षेदनध्याये तेनैव सह गच्छति ॥' इति । तद्गर्ज प्रकृत्याभिधानात् न केवलवृष्टौ दोषः अकालवृष्टौ तु दोष एवेति ॥ ५३ ॥
अथैवं व्रतबंधलग्नमभिधायेदानी दोषवत्त्वप्रतिज्ञाताननध्यायाजघनचपलार्ययाह
शुचिशुक्रपौषतपसां दिगविरुद्रार्कसंख्यसिततिथयः । भूतादित्रितयाष्टमि संक्रमणं च व्रतेष्वनध्यायाः ॥५४॥
शचीति ॥ द्विविधा ह्यनध्यायाः-नित्या नैमित्तिकाश्च । तत्र आषाढशुक्लदशमी ज्येष्ठशुक्लद्वितीया पौषशुक्लैकादशी मन्वादिः माघशुक्लद्वादशी एता अनध्यायाख्याः सोपपदात्वात् । तदुक्तं स्मृतौ-सिता ज्येष्ठे द्वितीया च भाषाढे दशमी सिता । चतुर्थी द्वादशी माघे एताः सोपपदाः स्मृताः ॥' इति । • भूतेति।भूतं चतुर्दशी, तदादित्रितयं चतुर्दशीपूर्णिमाप्रतिपदः । कृष्णपक्षे च
अमावास्या च तन्मध्ये । तथाष्टमी भूतादित्रितयं चाष्टमी चानयोः समाहारद्वंद्वे नपुंसकत्वे हस्वत्वं ज्ञेयम् । तथा संक्रमणं सूर्यस्य निरयनसंक्रांतिदिनं चकारात् “मन्वाद्यास्त्रितिथी मधौ' (११५७) इति पद्योक्ता मन्वादयो युगादयश्चानध्याया ज्ञेयाः । व्रतेष्विति पदमावश्यकत्वद्योतनार्थम् । यदाह गौतमः-पक्षद्वये चतुर्दश्योरष्टमीद्वितये तथा। पक्षादावपि पक्षांते ब्रह्म नाधीयते नरैः॥ ब्रह्म वेदः । हारीतेन विशेष उक्तः-'प्रतिपत्सु चतुर्दश्यामष्टम्यां पर्वणोर्द्वयोः । श्वोऽनध्यायाधशर्वर्या नाधीयीत कदाचन ॥' इति । श्वोऽनध्यायाद्यशर्वर्यामिति मन्वाधाधनध्यायविषयम् । चतुर्दश्यादिषु तु पूर्वदिने प्रदोषसद्भावादेवाध्ययनाभावः । फलं च ज्योतिःसारे-'अष्टमी हंत्युपाध्यायं शिष्यं हंति चतुर्दशी । अमावास्योभयं हंति प्रतिपत् पाठनाशिनी ॥' इति । वृद्धमनु:-'चातुर्मास्यद्वितीयासु मन्वादिषु युगादिषु । अष्टकासु च संक्रांतीः शयने बोधने हरेः ॥ अनध्यायं प्रकुर्वीत तथा सोपपदासु च ॥' इति । चातुर्मास्यद्वितीया गर्गेणोक्ताः-'आषाढफाल्गुनोर्जेषु या द्वितीया विधुक्षये । चातुर्मास्यद्वितीयास्ताः प्रवदंति महर्षयः ॥' इति । विधुक्षये कृष्णपक्षे । कृष्णादिमासगणनया चैत्रश्रावणमार्गशीर्षमासकृष्णपक्षसंबंधिन्यो