________________
प्रदोषस्तत्फलं च] संस्कारप्रकरणम् ५।
२१७ द्वितीयाश्चातुर्मास्यद्वितीया इत्यर्थः । अत एवोक्तं ज्योतिःसारसागरे'चातुर्मास्यसमाप्तौ तु या द्वितीया भवेत्तदा । सर्वास्तास्वनध्यायः पुराणैः परिकीर्तितः ॥' इति । चत्वारो मासाश्चातुर्मास्यमिति यौगिकशब्दः । ब्राह्मणादित्वात्स्वार्थे ष्यन् । तथा च स्मृत्यर्थसारे-आषाढी कार्तिकी फाल्गुनी पूर्णिमा प्रतिपद्वितीयासु च' इत्यनध्यायप्रकरणेऽभिहितम् । मन्वादयो युगादयश्चाधप्रकरणेऽभिहिताः । अष्टकास्तूक्ताः स्मृती'पौषादित्रिषु मासेषु कृष्णे चैवाष्टकात्रयम् । एका ज्ञेयाश्विने मासि हायने चतुरष्टकाः ॥ अष्टका च समुद्दिष्टा सप्तम्यादिदिनत्रयम् । नाधीयीत च शास्त्राणि व्रतबंधं च वर्जयेत् ॥' इति । अनध्यायप्रयोजनमाह वसिष्ठः-'पापांशकगते चंद्रे स्वाधिनीचस्थितेऽपि वा । अनध्याये चोपनीतः पुनःसंस्कारमर्हति ॥' इति । अत्रानध्याये इत्येतद्विहितानध्यायव्यतिरिक्तानध्यायविषयम् । अन्यथा'नैमित्तिकमनध्यायं कृष्णे च प्रतिपदिनम् । मेखलाबंधने शस्तं चौले वेदव्रतेस्वपि ॥' इति वसिष्ठवाक्यमनर्थकमापद्येत । नैमित्तिकानध्यायानां तर्हि किं प्रयोजनमिति चेत् । वेदाद्यध्ययननिवृत्तिरित्यवगच्छ । एवं सति 'नातः कालमपेक्षते' इति लौकिकन्यायादतीतकालस्य बटोः कालांतरप्रतीक्षामसहमानस्यावश्यकोपनयनविषयमिति निष्कृष्टोऽर्थः । अत एवोक्तं व्यासेन-'प्रशस्ता प्रतिपत् कृष्णे कदाचिच्छुभगे विधौ । चंद्रे बलयुते लग्ने वर्षाणामतिलंघने ।' इति । प्रतिपद्रहणं कैमुतिकन्यायसूचनार्थम् । नैमित्तिकानध्यायास्तु अस्माभिः 'मन्वाद्याः' (११५७) इति पद्यविवरणावसरे निरूपिताः ॥ ५४ ॥ अथ दोषवत्त्वप्रतिज्ञातान्प्रदोषाननुष्टुभाह
अर्कतर्कत्रितिथिषु प्रदोषः स्यात्तदग्रिमैः ।
राव्यर्धसार्धप्रहरयाममध्यस्थितैः क्रमात् ॥ ५५ ॥ .. अर्केति ॥ अर्कतर्कत्रितिथिषु तदग्रिमैरर्कादितिथिभ्योऽग्रिमैस्त्रयोदशीसप्तमीचतुर्थीतिथिभिः राज्यर्धसार्धप्रहरयाममध्ये स्थितैरर्कत्रितिथिषु प्रदोषः स्यात् । यथा द्वादश्यामर्धरात्रात्प्राक् त्रयोदशीप्रवृत्तौ प्रदोषः स्यात् । षष्ठयां सार्धप्रहरमध्ये सप्तमीप्रवृत्तिः तदा प्रदोषः स्यात् ; तथा तृतीयायां प्रहरमध्ये चतुर्थीप्रवेशे प्रदोष इत्यर्थः । उक्तं च-'चतुर्थी प्रथमे यामे साधयामे च सप्तमी । यामद्वये त्रयोदश्यां प्रदोषः सर्वघातकः ॥' इति । इदं निर्मूलत्वादुपेक्ष्यम् । दीपिकाटीकायां तूपनयनपद्यव्याख्याने प्रदोषपरिज्ञानं चाह गर्ग इत्युक्त्वोक्तम्-'चतुर्थी याममेकं तु सार्धयामे च सप्तमी । अर्धरात्रं त्रयोदश्यां प्रदोषो रजनीमुखम् ॥ अत्र नाध्यापयेद्वेदं वेदांगानि च सर्वथा । अत्राध्ययनशीलस्य प्रदोषः सर्वघातकः ॥' इति । गोभिलेन ह्येवमुक्तम्-'षष्ठी च द्वादशी चैव अर्धरात्रोननाडिका । प्रदोषमिह कुर्वीत तृतीया नवनाडिका ॥' इति । स्मृत्यर्थसारेऽपि-'चतुर्थ्याः पूर्वरात्रे तु नव१ 'त्रयोदश्यर्धरात्रे च' इति पाठः ।
१९ मु० चि०
HHHHHHHHHHHHH