________________
२१८
मुहूर्तचिंतामणिः। [ब्रह्मौदनसंस्कारः नाड्यां प्रदर्शने । नाध्येयं पूर्वरात्रे स्यात्सप्तमी च त्रयोदशी ॥ अर्धरात्रापुरा चेत्स्यानाध्येयं पूर्वरात्रके ॥' इति । तदेतयोः पक्षयोर्देशाचारतो व्यवस्थेति । ननु राध्यमिति 'अर्ध समेंऽधके' इत्यभिधानात्समांशवाचिनोऽर्धशब्दस्य नपुंसकलिंगत्वात् 'अर्ध नपुंसकम्' इति समासे 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्यर्धशब्दस्योपसर्जनसंज्ञत्वात् 'उपसर्जनं पूर्वम्' इति पूर्वनिपाते च 'अहःसर्वैकदेशसंख्यातपुण्याच रात्रेः' इत्यच्प्रत्यये कृते 'यस्येति च' इतीकारलोपे च 'रात्राहाहाः पुंसि' इति पुंस्त्वे अर्धरात्र इति भवितव्यं, न पुना रात्र्यमिति चेत् । उच्यते,-नात्र समांशवाच्यर्धशब्दः । यथा ग्रामा? नगरार्ध इत्यत्र । किं तर्हि ? 'भित्तं शकलखंडे वा पुस्योऽर्धम्' इत्यभिधानात्केवलविभागवाची । कथं ? द्वितीयप्रहरस्य चरमघटिकातृतीयप्रहरस्य प्रथमघटिका त्वेवं घटिकाद्वययुक्तः कालो निशीथशब्दवाच्यः । एतच्च जन्माष्टमीनिर्णये'अर्धरात्रादधश्चोर्ध्वमेकार्धघटिकान्विता । रोहिणी चाष्टमी ग्राह्या उपवासब्रतादिषु ॥' इति योगीश्वरपद्यव्याख्याने व्याख्यातं माधवेन । ततश्च समांशवाचित्वाभावादर्धशब्दस्य नैकदेशिसमासः। किं तर्हि ? षष्ठीत्यनेन षष्ठीसमासे षष्ठ्यंतस्य पूर्वनिपातः । अत्रैव-रात्रौ यामद्वयादग्यदि पश्येत्रयोदशीम् । प्रदोषः स तु विज्ञेयो गर्हितः सर्वकर्मसु ॥ इति गोभिलवाक्यमप्यनुकूलम् । इदमेवाभिप्रेत्य 'रात्र्यपूर्वापरगा जयंती कलयापि वा' इति वराहेणापि राज्यर्धपदं प्रयुक्तम् । यत्र तु समांशवाचित्वं विवक्षितं, 'सिद्धांतपक्षस्तु परं दिनार्धान्निशा निशार्धात्परतो दिनश्री'रिति विवाहवृंदावनपद्यादौ, तत्र तादृशाः प्रयोगाश्चिंत्याः ॥ ५५ ॥
अथ व्रतबंधानंतरं सायंकाले बढचानां ब्रह्मौदनाख्यः संस्कारोऽभिहितस्तत्र विशेषमार्ययाह
प्रारब्रह्मौदनपाकाद्वतबंधानंतरं यदि चेत् ।
उत्पातानध्ययनोत्पत्तावपि शांतिपूर्वकं तत्स्यात् ॥५६॥ प्रागिति ॥ यदि व्रतबंधात्प्रागकालिकाद्यनध्याय उत्पातो वा भवेत्तदा न कार्य एव व्रतबंधः। दैवान्निर्दुष्टे काले व्रतबंधो निर्वृत्तस्तदुत्तरं सायंकालीनब्रह्मौदनविधेः पूर्वमुत्पातप्रयुक्ता कालाशुद्धिरथवाऽनध्यायो वा स्यात्तदाविष्टमुक्तम् । उक्तं च नृसिंहप्रसादे–'ब्रह्मौदनविधेः पूर्व प्रदोषे गर्जितं भवेत् । तदा विघ्नकरं ज्ञेयं बटोरध्ययनस्य तत् ॥' अतस्तद्ब्रह्मौदनं शांतिपूर्वकमादौ शांतिं विधाय पश्चात्स्यात् । शांतिप्रकारस्तु नृसिंहप्रसादे'तस्य शांतिप्रकारं तु वक्ष्ये शास्त्रानुसारतः । स्वस्तिवाचनपूर्व तु हवनं कारयेद्बुधः ॥ प्रधानं पायसं साज्यं द्रव्यं शांतियजौ भवेत् । सूक्तं बृहस्पतेविद्वान्पठेद्विद्यासमृद्धये ॥ गायत्री युंजते मंत्रः प्रायश्चित्तं तु सर्पिषा । धेर्नु सवत्सकां दद्यादाचार्याय पयस्विनीम् ॥ शिलां होमविधेः पश्चात्स्थापयेत्तत्र