________________
संस्कार्यमात् रजःप्राप्तो निर्णयः] संस्कारप्रकरणम् ५।
२१९ संसदि । ब्राह्मणान्भोजयेत्पश्चात्ततो ब्रह्मौदनं चरेत् ॥' इति । अत्रैतस्य विचारस्य मुहूर्त विचारेऽनुपयोगान्मूलपद्यनिबंधो यद्यपि स्वयमवक्तव्यस्तथापि सकलजनप्रसिद्ध्यर्थमभिहितः ॥ ५६ ॥
अथ पूर्व द्वाविंशतिनक्षत्राण्यभिहितानि सामान्यतस्तेषां वेदपरत्वेन विशेष वसंततिलकयाह
वेदक्रमाच्छशिशिवाहिकरत्रिमूल
पूर्वासु पौष्णकरमैत्रमृगादितीज्ये । ध्रौवेषु, चाश्विवसुपुष्यकरोत्तरेश
कणे मृगांत्यलघुमैत्रधनादितौ सत् ॥ ५७॥ वेदक्रमादिति ॥ मृगाश्लेषाहस्तचित्रास्त्रातीमूलपूर्वानयेषु ऋग्वेदाध्यायिनां, रेवतीहस्तानुराधामृगपुनर्वसुपुष्यरोहिण्युत्तरात्रयेषु यजुर्वेदाध्यायिनां, अश्विनीधनिष्ठापुष्यहस्तोत्तरात्रयाश्रवणेषु सामवेदाध्यायिनां, मृगरेवतीपुष्याश्विनीहस्तानुराधाधनिष्ठापुनर्वसुषु अथर्वणवेदाध्यायिनां पूर्वश्लोकानुवृत्ततत्पदपरामृष्टमुपनयनं सत् शुभमित्यर्थः । उक्तं च ज्योतिर्निबंधे–'मूले हस्तत्रये सार्प शैवे पूर्वात्रये तथा । ऋग्वेदाध्यायिनां कार्य मेखलाबंधनं बुधैः॥ पुष्ये पुनर्वसौ पौष्णे हस्ते मैत्रे शशांकभे। ध्रुवेषु च प्रशस्तं स्याद्यजुषां मौजिबंधनम् । पुष्यवासवहस्ताश्विशिवकर्णोत्तरात्रयम् । प्रशस्तं मेखलाबंधे बटूनां सामगायिनाम् ॥ मृगमैत्राश्विनीहस्तरेवत्यदितिवासवम् । अथर्वपाठिनां शस्तो भगणोऽयं व्रतार्पणे ॥' इति ॥ ५७ ॥ अथ धर्मशास्त्रीय विशेषमनुष्टुभाह
नांदीश्राद्धोत्तरं मातुः पुष्पे लग्नांतरेऽसति ।
शांत्या चौलं व्रतं पाणिग्रहः कार्योऽन्यथा न सत् ॥५८॥ नांदीश्राद्धति ॥ बहुघटीसाध्यानां शुभकर्मणां प्रारंभे सकलशुभाशुभकर्मसाधारणनांदीश्राद्धाख्यं कर्माभिहितं, तत्कृत्यानंतरं यदि संस्कार्यमातुः पुष्पे रजोदर्शने जाते सति लग्नांतरे विवक्षितलग्नादन्यस्मिन् लग्ने च असति तदावश्यकत्वाद्धर्मशास्त्रोक्तां शांतिं विधाय चौलं व्रतं यज्ञोपवीतं पाणिग्रहो विवाहश्च कार्यः । अन्यथा समीचीनद्वितीयलग्नत्वे सति चौलादिशुभकर्म न सत्, दुष्टफलदमित्यर्थः । उक्तं च मेधातिथिना-'चौले च व्रतबंधे च विवाहे यज्ञकर्मणि । भार्या रजस्वला यस्य प्रायस्तस्य न शोभनम् ॥ वधूवरान्यतरयोजननी चेद्रजस्वला। तस्याः शुद्धः परं कार्य मांगल्यं मनुरब्रवीत् ॥' वृद्ध. मनुरपि-'विवाहव्रतचूडासु यदि माता रजस्वला । तदा न तत्प्रकर्तव्यमायुःक्षयकरं यतः ॥' बृहस्पतिः-'वैधव्यं च विवाहे स्याजडत्वं