________________
मुहूर्तचिंतामणिः । [ केशांतकर्मादिविचारः
व्रतबंधने । चूडायां च शिशोर्मृत्युर्विघ्नं यात्राप्रवेशयोः ॥' रजोविषयमेतज्ज्ञेयम् । प्रचेताः - 'प्राप्य चाभ्युदयश्राद्धं पुत्रसंस्कारकर्मणि । पत्नी रजस्वला जाता न कुर्यात्तत्पिता तदा ॥' इति । पितेति नांदीश्राद्धकर्तुरुपलक्षणम् । तथा च वृद्धगर्गेण - 'पिता पितामहो भ्राता ज्ञातयो गोत्रजाग्रजाः । उपाdsधिकारी स्यात्पूर्वाभावे परः परः ॥ इत्यादयोऽधिकारिण उपनयनेऽभिहिताः । तस्मात्संस्कार्यमातरि रजस्वलायां लग्नान्तरसद्भावे च न कार्यमेव चौलादि | लग्नांतराभावे तु शांतिप्रकारो वाक्यसारे - 'अलाभे सुमुहूर्तस्य रजोदोषे ह्युपस्थिते । श्रियं संपूज्य विधिवत्ततो मंगलमाचरेत् । हैमीं माषमितां पद्मां श्रीसूक्तविधिनार्चयेत् । प्रत्यृचं पायसं हुत्वाभिषिच्य हितमा - चरेत् ॥' इति । अस्याप्यपवादस्तत्रैव - 'उपवासेन शुध्यंति नार्यः सद्यो रजस्वलाः । एकाकिन्यो विवाहादौ देशभंगेषु चापदि ॥' इति । एतच्च पद्यं वक्तुमनुचितं मुहूर्तविचारार्थं प्रवृत्तत्वात् ग्रंथकर्तुः, यतोऽत्र न कश्चिन्मुहूर्तविचारः प्रतिपाद्य इति । परंतु सकलजनप्रसिद्धः शास्त्रार्थो भवत्वित्युक्तम् ॥ इति सपरिकरो व्रतबंधः समाप्तः ॥ ५८ ॥
२२०
अथैवं त्रैवर्णिकानां व्रतबंधमुक्त्वेदानीं केशांतकर्मादि वक्ष्यति - विचैत्रव्रतमासादौ विभौमास्ते विभूमिजे । छुरिकाबंधनं शस्तं नृपाणां प्राविवाहः ।। ५९ ।।
विचैत्रेति ॥ चैवरहितेषूपनयनमासेषु माघफाल्गुनवैशाखज्येष्ठेष्वित्यर्थः । आदिशब्देन व्रतबंधनोक्तपक्षतिथिनक्षत्रलग्नादीनां ग्रहणम् । तस्मिन्कीदृशे ? विभौमास्ते मंगलास्तरहिते । गुरुशुक्रयोस्त्वस्तवर्जनं सामान्यनिषेधेन सिद्धत्वान्न पृथगुक्तम् । तथा विभूमिजे मंगलवाररहिते सूर्यादिवारे एतादृशे काले सति नृपाणां क्षत्रियाणां विवाहतः पूर्वं छूरिकाया अल्पशस्त्रविशेषस्य कव्यां बंधनं कार्यमिति शेषः । तच्छस्तं हितकारि । उक्तं च नारदेन - 'छूरिकाबंधनं वक्ष्ये नृपाणां प्राक्करग्रहात् । विवाहोत्तेषु मासेषु शुक्लपक्षेऽप्यनस्तगे ॥ जीवे शुक्रे च भूपुत्रे चंद्रताराबलान्विते । मौंजीबंधनऋक्षेषु भौमवर्जितवासरे ॥ व्रतलनोदये कर्तुरष्टमोदयवर्जिते । धनत्रिकोणगैः सौम्यैः पापैर्भवरिपुत्रिगैः ॥ छूरिकाबंधनं कार्यमर्चयित्वा सुरान् पितृन् । अर्चयेच्छूरिकां सम्यक् देवतानां च सन्निधौ । ततः सुलने बध्नीयात्कट्यां लक्षणसंयुताम् ॥' इति लक्षणानि नारदवराहाभ्यामुक्तानि, ग्रंथभूयस्त्वभयात्संश्रदायव्याख्यागम्यत्वाच्चास्माभिर्नोक्तानि । अत्र प्राग्विवाहत इत्युक्तेरवधिनिश्वयात् समावर्तनानंतरं छूरिकाबंधनं कार्यं विवाहभूषणत्वात्तस्य । यदि यज्ञोपवीतानंतरमेव चिकीर्षितं स्यात्तदोपनयनानंतरं कार्यमित्येव ब्रूयात् । ग्रंथकर्त्रा तु नारदोक्तक्रममंगीकृत्यैवमुक्तम् । तत्र पाठक्रमो बलीयान् इति समाधिः ॥ ५९ ॥
1