________________
२२१
समावर्तनमुहूर्तः] संस्कारप्रकरणम् ५।
२२१ " अथ केशांतसमावर्तनमुहूर्तमनुष्टुभाह
केशांतं षोडशे वर्षे चौलोक्तदिवसे शुभम् ।
व्रतोक्तदिवसादौ हि समावर्तनमिष्यते ॥६॥ केशांतमिति ॥ षोडशे वर्षे चौलोक्तदिवसे 'चूडा वर्षात्तृतीयात्प्रभवति' (५।२९) इत्यादिना कथितशुभदिवसे गोदानापरपर्याय केशांतसंज्ञं हि कर्म शुभं स्यात् ।गावः केशा दीयंते खंड्यंते यस्मिन्निति व्युत्पत्तिः। यदाह-'केशांतं षोडशे वर्षे कुर्याच्चौलोक्तभादिके' इति । महेश्वरोऽपि-कर्म केशांतसंज्ञं हि वर्षे स्मृतं षोडशे चौलकर्मोक्तधिष्ण्यादिके' इति । षोडश इत्येतद्राह्मणविषयं द्रष्टव्यम् । क्षत्रियविशोस्तु द्वाविंशतिचतुर्विंशतितमवर्षयोः केशांतमित्यर्थः । तदुक्तं मनुना-'केशांतः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबंधो
विंशे वैश्यस्य ब्यधिके ततः ॥' इति । अत्र गोदानस्य महानाच्यादिव्रतपूर्वकत्वात्तानि प्रागनुष्ठाय ततो गोदानं विधेयमिति । यदाहाश्वलायन:'प्रथमं स्यान्महानाम्नी द्वितीयं च महाव्रतम् । तृतीयं स्यादुपनिषद्गोदानं च ततः परम् ॥' इति । अतो जन्मतस्त्रयोदशे वर्षे महानाम्नी, चतुर्दशे महाव्रतं, पंचदशे उपनिषद्रतं, षोडशे गोदानमिति । तदुक्तम्-एवं क्षत्रियविशोरप्युक्तं गोदानात्प्राक् वर्षचतुष्टयं क्रमेण महानाम्यादि भवति । अत्रापि मुहूर्तविचारश्चौलवदेव । तदुक्तं श्रीधरीये-'तिथिनक्षत्रवाराश्च वर्गोदयनिरीक्षणम् । चौलवत्सर्वमाख्यातं सगोदानव्रतेषु च ॥' इति । यदा पुनदैवादतीतकालानि महानाम्यादिव्रतानि स्युस्तदा समावर्तनेन सह कार्याणि । व्रतोक्तेति । हि निश्चयेन व्रतं यज्ञोपवीतं तत्र विहितदिवसे । आदिशब्देन वारनक्षत्रलग्नांशेषु सत्सु समावर्तनमिष्यते । यदाह-'गुरुशुद्धिं विना काले व्रतोक्ते व्रतमोक्षणम्' इति । महेश्वरोऽपि-'खेचरज्ञैव्रतानां विसर्गोदितं कर्म तद्वद्रतोक्ते च धिष्ण्यादिके' इति । सुरेश्वरोऽपि-विभौमभानुजे वारे नक्षत्रे च व्रतोदिते । चंद्रताराविशुद्धौ च स्यात्समावर्तनक्रिया ॥' इति । यत्त-'क्षौरोदितादिविलग्नयोगे मौंजीविमोक्षः शुभदो द्विजानाम् ॥' इति दीपिकाकारादिभिरुक्तं तत् स्वदेशविषयम् । विशेषो नारदोक्तः'अथोत्तरायणे जीवशुक्रयोदृश्यमानयोः । द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम् ॥ चित्रोत्तरादितीज्येंदुहरिमित्रविधातृषु । भेष्वदुज्ञार्यशुक्रवारलग्नांशकेष्वपि ॥ अथवा वस्त्रनक्षत्रवारलग्नांशकेष्वपि । प्रतिपत्पर्वरिक्ताभामष्टमी च दिनक्षयम् । हित्वान्यदिवसे कार्य समावर्तनमुंडनम् ॥' अत्र कश्यपेन चैत्रो वर्जितः-'चैत्रमासविवर्येषु माघादिषु च पंचसु ॥' इति तदुक्तेः । एतच्च गोदानानंतरं विवाहात्प्राक् कार्यमित्याह वसिष्ठः-'अधीत्य वेदांश्च तदर्थशास्त्राण्यभ्यस्य लब्ध्वा स्वगुरोरनुज्ञाम् । कुर्यात्समावर्तनकर्म पश्चाद्गोदानतः पाणिनिपीडनात्प्राक् ॥' तत्रापि सत्यावश्यकत्वे द्वितीयवर्षे न कार्यमेव । तदुक्तं ग्रंथांतरे-'वधूप्रवेशं व्रतमोचनं च पुंसः पुन