________________
मुहूर्तचिंतामणिः । [विवाह भेदास्तलक्षणानि च
दरिपरिग्रहं च । नाब्दे द्वितीये विदधीत विद्वान्वदंति गर्गात्रिवसिष्ठमुख्याः ॥' इति । स्त्रीमरणानंतरं पुनर्विवाहो द्वितीयवर्षे न भवतीत्यर्थः । पूर्वविवाहानंतरं द्वितीयविवाहो द्वितीयवर्षे न भवतीति कस्यचिद्वयाख्यान मपाकृतं भवति, 'प्रमदामृतिवासरादितः पुनरुद्वाहविधिर्वरस्य च । विषमे परिवत्सरे भवेद्युगलं चैव मृतिप्रदं भवेत् ॥' इति संग्रहकारवचनादिति शिवम् ॥६०॥ अथ संस्कारप्रकरणं गद्येनोपसंहरति
इति श्रीदैवज्ञानंतसुतदैवज्ञरामज्योतिर्विद्विरचिते मुहूर्तचिंतामणौ पंचमं सपरिकरं संस्कारप्रकरणं समाप्तम् ॥ ५ ॥
परिकरोऽलंकार उत्सर्गापवादरूपः । शेषं स्पष्टार्थम् । 'ज्योतिर्विद्वरनीलकंठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणाहिगवीप्रसारितधिया मौहूर्तचिंतामणेः ॥ गोविंदेन विनिर्मिते नयनिधौ पीयूषधाराभिधे व्याख्याने द्विजसंस्कृतिप्रकरणं पूर्ण सदानंददम् ॥ १ ॥
इति श्रीमद्दैवज्ञमुकुटालंकारनीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां मुहूर्तचिंतामणिटीकायां पीयूषधारायां सपरिकरं संस्कारप्रकरणं समाप्तम् ॥ ५ ॥
२२२
अथ विवाहप्रकरणम् ६ ।
அணிகை
गौरीनंदनमिष्टसिद्धिसदनं विघ्नावलीभेदनं
नत्वा ज्यौतिषिकाम्यरामरचिते मौहूर्तचिंतामणौ । गोविन्दो बुधनीलकंठविधिवित्सूनुः सतामग्रणी -
ह्व करपीडनप्रकरणं व्याख्याति विद्वन्मुदे ॥ १ ॥ अथ विवाहप्रकरणं व्याख्यायते । तत्र विवाहशब्देन पाणिग्रहणाख्यः संस्कारविशेष उच्यते । ते च विवाहा अष्टौ । उक्तं च मनुना - 'चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् । अष्टाविमान्समासेन स्त्रीविवाहान्निबोधत ॥ ब्राह्मो १ दैव २ स्तथा चार्षः ३ प्राजापत्य ४ स्तथाssसुरः ५ । गांधर्वो ६ राक्षस ७ चैव पैशाच ८ श्राष्टमोऽधमः ॥ इति । एषां लक्षणान्याह याज्ञवल्क्यः - 'ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ यज्ञस्थऋत्विजे दैव आदायार्षस्तु गोद्वयम् । चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् । इत्युक्त्वा चरतां धर्मं सह या दीयतेsर्थ । स कायः पावयेत्तज्जः षट्षद वंश्यान् सहात्मना ॥ आसुरो द्रविणादानाद्गांधर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥' इति । कायः = प्राजापत्यः । छलं=वंचना । एषां कालनियममाह नारदः—–'प्राजापत्यब्राह्मदैवविवाहा ऋषिसंज्ञकाः । उक्तकालेषु कर्तव्याश्चत्वारः फलदायकाः ॥ गांधर्वासुरपैशाचराक्षसाख्याश्च सर्वदा ॥' इति ।