________________
विवाहे लग्मशुद्धेवैशिष्ट्यं ] विवाहप्रकरणम् ६ ।
२२३ अत एव 'सार्वकालमेके विवाहम्' इति गृह्यकारवचनं गांधर्वादिविवाहविषयम् । स च विवाहः स्त्रीपुरुषद्वयायत्तः । तत्रापि बहुधा पुरुषायत्तः । 'अनाश्रमी न तिष्ठेत क्षणमेकमपि द्विजः । आश्रमादाश्रमं गच्छेदेष धर्मः सनातनः ॥' इति च स्मरणात् इतराश्रमोपजीव्यतया प्राधान्याञ्चति समावर्तनानंतरं पुरुषेणावश्यं विवाहे यतितव्यम् । किंच अग्निहोत्रादीनां नित्यानां कर्मणां करणे पत्नीं विना नाधिकार इति स्मृतौ स्मरणात्'नापुत्रस्य लोकोऽस्ति' इति श्रुत्या पुत्राभावे परलोके दुर्गतिबोधनाच्च । तत्र पुत्राद्युत्पत्तिस्तु दंपत्योरानुकूल्यं विना न स्यात् । उक्तं च याज्ञवल्क्येन 'यत्रानुकूल्यं दंपत्योत्रिवर्गस्तत्र वर्धते' इति । त्रिवर्गो धर्मार्थकामात्मकः । स च ज्योतिःशास्त्रैकदेशविवाहपटलाधीन इत्येतत्सर्वं मनस्यालोच्य सप्रयोजन विवाहप्रकरणारंभं वसंततिलकया प्रतिजानीते
भार्या त्रिवर्गकरणं शुभशीलयुक्ता
शीलं शुभं भवति लग्नवशेन तस्याः । तस्माद्विवाहसमयः परिचिंत्यते हि
तनिघ्नतामुपगताः सुतशीलधर्माः ॥१॥ __ भार्येति ॥ शुभं भादेरनुकूलं शीलं स्वभावस्तेन युक्ता भार्या त्रिवर्गस्य धर्मार्थकामरूपस्य करणं स्थानमस्ति । अत्र स्त्रीनपुंसकलिंगयोः सामानाधिकरण्यं वेदाः प्रमाणं स्मृतयः प्रमाणमितिवत्साधु । अजहलिंगत्वादस्य । [ तस्याः सुलग्नवशेन शीलं शुभं भवति । यतः सुतशीलधर्माः ] तन्निन्नतां विवाहाधीनताम् । शेषं स्पष्टार्थम् । 'अधीनो निघ्न आयत्तः' इति । त्रिवर्गो धर्मकामार्थं श्चतुर्वर्गः समोक्षकैः' इति चामरः।[उपगताः प्राप्ताः । अतोहीति निश्चयेन विवाहसमयः परिचिंत्यते विचार्यते इति । ] उक्तं च कश्यपेन-'अथातः संप्रवक्ष्यामि गृहस्थाश्रममुत्तमम् । य आधारोऽन्याश्रमाणां भूतानां प्राणिनां तथा ॥ ऋणत्रयच्छेदकारि धर्मकामार्थसिद्धिदम् । एतत्सर्वं स्थितं स्त्रीषु शीलवृत्तान्वितासु च ॥ तच्छीलवृत्तलब्धिस्तु सुलग्नवशतो भवेत् । तस्मात्सम्यग्लग्नशुद्धिं प्रवक्ष्याम्यनुपूर्वशः ॥' इति । ऋणत्रयं देवऋणं पित्रण ऋषिऋणं च । वसिष्ठोऽपि–'कश्चिद्गृहाश्रमसमो न परोऽस्ति धर्मः सोऽपि स्थितः सुगुणवृत्तयुतांगनासु । उद्वाहलग्नवशतो गुणवृत्तलब्धिस्तासां तथाविधसुलग्नमतः प्रवच्मि ॥' ननु जन्मकालीनखेचरावेदितशुभाशुभं दुरतिक्रममिति विवाहलग्नानर्थक्यमिति चेन्न । ज्यौतिषस्मृत्यावेदितशुभसमयारब्धविधिजन्यापूर्वजनितशुभफलेन जन्मान्तरीयदुरदृष्टध्वंसो भवतीत्येवमर्थतया सार्थक्यात् । अत एवाह सत्याचार्यः-'शुभक्षणक्रियारंभजनिताः पूर्वसंभवाः । संपदः सर्वलोकानां ज्योतिस्तत्र प्रयोजनम् ॥' इति । एवं व्रतबंधादावपि द्रष्टव्यम् ॥ १॥
१ एतच्चिह्नांतर्गतो ग्रंथो लिखितपुस्तकेषु नास्ति ।