________________
२२४
मुहूर्तचिंतामणिः। [प्रश्नलम्नाद्विवाहयोगद्वयं . अथ तावत्प्रश्नलमाद्विवाहयोगद्वयं स्रग्धरयाहआदौ संपूज्य रत्नादिभिरथ गणकं वेदयेत्स्वस्थचित्तं
कन्योद्वाहं दिगीशानलहयविशिखे प्रश्नलग्नाबदींदुः। दृष्टो जीवेन सद्यः परिणयनकरो गोतुलाकर्कटाख्यं
वा स्यात्प्रश्नस्य लमं शुभखचरयुतालोकितं तद्विदध्यात् ॥२॥ आदाविति ॥ अथशब्दो मंगलार्थों ग्रंथमध्यस्थत्वात् । यथोक्तम्'ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्मांगलिकावुभौ ॥' इति । आदौ गणकं ज्योतिर्विदं रत्नादिभी रत्नमणिसुवर्णवस्त्रफलादिभिः संपूज्य ततः प्रष्टा जनः कन्याया उद्वाहं गणकं वेदयेत् ज्ञापयेत् । 'गतिबुद्धि-' इत्यादिना विदेर्बुद्ध्यर्थत्वादणौ कर्तुः कर्मत्वम् । कीदृशं गणकम् ? स्वस्थचित्तमब्याकुलांतःकरणम् , 'स्वस्थे चित्ते बुद्धयः संभवन्ति' इति लोकोक्तेः । रत्नादिग्रहणमप्येतदर्थमेव । यदाह वसिष्ठः-'शुभे दिने दैवविदं त्वभिशं तांबूलपुष्पाक्षतपूर्णपाणिः । प्रष्टा च गत्वा प्रणिपत्य पृच्छेन्निवेद्य तस्मै वरकन्ययोर्भम् ॥' इति । उत्पलोऽपि'प्रष्टा मणिकनकयुतैः फलकुसुमै राशिचक्रमभ्यर्च्य । पृच्छेद्यथाभिलषितं भक्त्या विनयान्वितः प्रश्नम् ॥' इति । तत्रैको विवाहयोग उच्यते । दिगिति । यदि प्रश्नलग्नाद्दशमैकादशतृतीयसप्तमपंचमानामन्यतमे स्थाने स्थितश्चंद्रो जीवेन गुरुणा दृष्टः सन् सधः शीघ्रं परिणयनकर्ता स्यात् । यदाह वसिष्ठः-'लग्नाधिपंचास्तदशायगस्तु हिमधुतिर्जीवनिरीक्षितश्च । तयोस्तु संबंधकरस्तदानीं नाकांशुलुप्तो न च नीचगश्चेत् ॥' तयोः वरकन्ययोः । कश्यपोऽपि.-'लग्नादुश्चिक्यपुत्रास्तकर्मलाभगतः शशी । गुरुदृष्टस्तयोरेव संबंधं कुरुते सदा ॥' इति । संबंधं-विवाहम् । अथ द्वितीयो योग उच्यतेगोतुलेति । गौर्वृषः वृषतुलाकर्काणामन्यतमं प्रश्नलग्नं वा स्यात् तच्चेच्छुभग्रहैर्युतमवलोकितं वा भवेत्तर्हि तत्परिणयनं विदध्यात् । विलग्नगा गोधटकर्कटाश्च हिमांशुदैत्येज्यसमन्वितास्ते । संवीक्षिता वा यदि कन्यकाया लामो भवेत्तत्र च पृच्छकस्य ॥' इति वसिष्ठोक्तेः। कश्यपोऽपि-'लग्नस्थाश्चंद्गशुक्राभ्यां वीक्षिताः संयुताश्च वा। कुर्वति कन्यकालाभं यदि गोधटकर्कटाः ॥' इति । अत्र नारदादिभिः शुक्रचंद्रयोदृष्टियोगश्चाभिहितः । ग्रंथकर्ता तु शुभखचरत्वादुधगुर्वोरपि दृष्टिरुक्ता । सा कन्याया भर्तृप्रश्ने सति तत्प्राप्तिसूचिका ज्ञेया, तुल्यन्यायत्वात् । अथदा 'लग्नं विधुभृगुजयुतालोकितम्' इति पाठः कल्प्यः ॥ २ ॥
अथान्यद्विवाहयोगद्वयं द्रुतविलंबितेनाहविषमभांशगतौ शशिभार्गवौ तनुगृहं बलिनौ यदि पश्यतः ।