________________
प्रभलनाडुष्टयोगप्रतिपत्तिः] विवाहप्रकरणम् ६ ।
२२५ रचयतो वरलाभमिमौ यदा युगलभांशगतौ युवतिप्रदौ ॥३॥ • विषमेति ॥ चरणद्वयं स्पष्टार्थम् । अत्रोत्तरार्धसंमतिवाक्योक्तकन्यालाभप्रदयोगाद्वैपरीत्यमिति युक्तितो निबद्धं ग्रंथकृता। अयमेको विवाहयोगोअभिहितः। अथापरो विवाहयोगः। यदेमौ शशिभार्गवौ युगलभांशगतो युग्मराशिगतौ युग्मांशकगतौ च बलिनौ संतौ तनुगृहं पश्यतस्तदा कन्याप्रदौ स्याताम् । यदाह नारदः-'शुक्रंदू युग्मराशिस्थौ युग्मांशकगतौ यदा। वीक्षिते बलिना लग्ने कन्यालाभो भवेत्तदा ॥' इति ॥ ३॥ ___ अथ प्रश्नलग्नाद्वैधव्ययोगत्रयं शालिन्याहषष्ठाष्टस्थः प्रश्नलग्नाद्यदीदुर्लग्ने क्रूरः सप्तमे वा कुजः स्यात् । मूर्ताविंदुः सप्तमे तस्य भौमो रंडा सा स्यादष्टसंवत्सरेण ॥४॥
षष्ठेति ॥ यदि प्रश्नलग्नादिंदुश्चंद्रः षष्ठाष्टमस्थस्तदा कन्या अष्टसंवत्सरेण विवाहवर्षादिति शेषः । रंडा भर्तृनाशिका स्यात् । ततः स्वयमपि म्रियेत । सर्वथा द्वयोरपि मरणमष्टमाब्दानंतरं स्यादित्यर्थः । संमत्यनुरोधात् । यदाह वसिष्ठः-'प्रष्टुर्विलग्नात्प्रबलः शशांकः शत्रुस्थितो मृत्युगृहस्थितो वा । यद्यष्टमान्दात्परतो विवाहं करोति मृत्युं वरकन्ययोश्च ॥' इति । अथान्यःवा अथवा लग्ने यः कश्चित्क्रूरग्रहः स्यात्ततः सप्तमे स्थाने कुजो भौमो भवे. तदाऽष्टवर्षमध्ये रंडा स्यात् । यदुक्तं नारदेन-'यदि लग्नगतः क्रूरस्तस्मात्सप्तमगः कुजः। विज्ञेयं मरणं पुंसः सप्तमाब्दांतरे यदि ॥' केचित्सप्तमेऽपि ऋरग्रहमेवंविधे प्रश्ने निषेति ॥ यदाह कश्यपः-'एको लग्नगतः पापः पापोऽन्यः सप्तराशिगः। आसप्तमाब्दान्मरणं पुरुषस्य न संशयः ॥' इति । शौनकोऽपि-'यधुदयस्थः त्रस्तस्माद्यदि सप्तमो भवेत्पापः । सप्तभिरब्दैमरणं विज्ञेयं तस्य पुरुषस्य ॥' इति । वसिष्ठोऽपि-'एकोऽपि लग्नोपगतश्व पापः पापस्ततोऽन्यः खलु सप्तमस्थः । आसप्तमाब्दान्निधनं वरस्य बलान्वितौ तौ कुरुतस्त्ववश्यम् ॥' एषां मते 'सप्तमे वा खलः स्यात्' इति पाठः कल्प्यः । अस्मिन्पाठे विशिष्य कुजग्रहणं न कर्तव्यं भवति, पापत्वादेव तल्लाभादिति युक्तमुत्पश्यामः। अथापरः-वा अथवा मूतौं लग्ने इंदुः तस्य सप्तमे स्थाने भौमो भवेत्ततोऽष्टवर्षानंतरं रंडा स्यात् । उक्तं च नारदेन-'यदि लग्नगतश्रंद्रस्तस्मात्सप्तमगः कुजः । विवाहानंतरं भर्ता त्वष्टवर्ष न जीवति ॥' इति ॥ ४॥ __ अथ प्रश्नलग्नात्कुलटामृतवत्सायोगविकल्पं दोधकवृत्तेनाहप्रश्नतनोर्यदि पापनभोगः पंचमगो रिपुदृष्टशरीरः। नीचगतश्च तदा खलु कन्या सा कुलटा त्वथवा मृतवत्सा ॥५॥
प्रश्नतनोरिति ॥ यदि प्रश्नलग्नात्पापग्रहः पंचमस्थानस्थः शत्रुग्रहावलोकितः सन् स्वनीचगतश्च स्यात्तदा खलु निश्चितं सा कन्या कुलटा वेश्या भवे